________________
अक्षपाददर्शनम् ।
३५
चिन्तयितुं न शक्यमित्येतत्स्वानुभव मे प्रच्छादयन्तः सन्तो विदांकुर्वन्तु विदां वरा भवन्तः । तस्मात्परिशेषात्परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणाऽऽत्मतत्त्वसा क्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम् ।
1
नन्वीश्वरसद्भात्रे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा । न तावदत्र प्रत्यक्षं क्रमते । रूपादिरहितत्वेनातीन्द्रियत्वात् । नाप्यनुमानम् । तद्वय सलिङ्गाभावात् । नाऽऽगमः । विकल्पासहत्वात् । किं नित्योऽवगमयत्यनित्यो वा । आद्येऽपसिद्धान्तापातः । द्वितीये परस्पराश्रयापतिः । उपमानादिकमशैक्यशङ्कम् | 'नियतविषयत्वात् । तस्मादीश्वरः शशविषाणायत इति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति । विवादास्पदं नगसागरादिकं सकर्तृकं कार्यत्वात्कुम्भवत् । ने चायमसिद्धो हेतुः । सावयवत्वेन तस्य सुसाधनत्वात् । ननु किमिदं सावयवत्वम् । अवयवसंयोगित्वमवयवसमवायित्वं वा । नाऽऽद्यः । गगनादौ व्यभिचारात् । न द्वितीयः । तन्तुत्वादावनैकान्त्यात् । तस्मादनुपपन्नमिति चेन्नैवं वादीः | समवेतद्रव्यत्वं सावयवत्वमिति निरुक्तेर्वक्तुं शक्यत्वात् । अवान्तरमहत्त्वेन वा कार्यत्वानुमानस्य सुकरत्वात् । नापि विरुद्ध हेतुः । साध्यविपर्ययंव्याप्तेरभावात् । नाप्यनैकान्तिकः । पक्षादन्यत्र वृत्तेरदर्शनात् । नापि कालात्ययापदिष्टः । बाधकानुपलम्भात् । नापि सत्प्रतिपक्षः । प्रतिभटादर्शनात् । ननु नगादिकमव र्तृकं शरीराजन्यत्वाद्गगनवदिति चेनैतत्परीक्षा क्षमभीक्ष्यते । न हि कठोरकण्ठीरवस्य कुरङ्गे शात्रः प्रतिभटो भवति । अजन्यत्वस्यैव ! समर्थतया शरीरविशेष- वैदर्थ्यात् । तर्ह्य जन्यत्वमेव साधनमिति चेन्न । असिद्धेः। नापि सोपाधिकत्वशङ्कनकलङ्काङ्कुरः संभवी । अनुकूलतर्कसंभवात् । यद्ययमकर्तृकः स्यात्कार्यमपि न स्यात् । इह जगति नास्त्येव तत्कार्य नाम यत्कारक चक्रमबंधी र्याऽऽत्मानमासादयेदित्येतदविवादम् । तच्च सर्वे कर्तृविशेषोपहितमर्यादम् | कर्तृत्वं चेतरकारकाप्रयोज्यत्वे सति सकलकारकमयोक्तुस्वलक्षणं ज्ञानचिकीर्षामयत्नाधारत्वम् । एवं च कर्तृव्यावृत्तेस्तदुपहित समस्तकारकव्यावृत्तावकारणककार्योत्पादप्रसङ्ग इति स्थूलः प्रमादः । तथाँ निरटङ्कि शंकर किंकरेण—
१०
।
१ ख. 'मवच्छा' । २ ख. 'स्मात्परमे
.0
। ३ क. 'द्वयाप्तिलि । ४ घ. 'शङ्कनीयमतद्विष ।
।
५ ख. 'शङ्कमवि' । ६ ख. घ. 'स्य सा ॰ष्टः साध° । घ. ॰ष्टः साध्याभावसा । ९ च
७ क. ग. ङ. च. त्ययोप । ८ क. ख. ग. ङ्गभावः । १० क. ख. 'सिद्धे ना। गः 'सिद्धेमा' |
११ च 'वसेयमात्मा' । १२ ख. घ. शेषाहि । १३ ख . ' थाहि नि ।