________________
११२
सर्वदर्शनसंग्रहे-- र्णानां वाचकत्वानुपपत्तौ यद्वलादर्थप्रतिपत्तिः स स्फोटः । वर्णातिरिक्तो वर्णाभिव्यङ्गयोऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति । अत एव स्फुटयते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्गन्धः स्फुटति स्फुटी भवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयथा निराहुः । तथा चोक्तं भगवता पतञ्जलिना महाभाष्ये-अथ गौरित्यत्र कः शब्दो थेनोच्चारितेन सास्नालागुलककुदखुरविषाणानां संप्रत्ययो भवति स शब्दः (पात० म० भा० पृ० १ ५० ६ ) इति । विवृतं च कैयटेन-वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाचकत्वमिच्छन्ति । वर्णानां वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्र. सङ्गादित्यादिना तव्यतिरिक्तः स्फोटो नादाभिव्यङ्गन्यो वाचको विस्तरेण वाक्यपदीये व्यवस्थापित इत्यन्तेन प्रबन्धेन ।
ननु स्फोटस्याप्यर्थप्रत्यायकत्वं न घटते । विकल्पासहत्वात् । किमभिव्यक्तः स्फोटोऽयं प्रत्याययत्यनभिव्यक्तो वा । न चरमः । सर्वदाऽर्थप्रत्ययलक्षणकार्योत्पादप्रसङ्गात् । स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्यस्य विलम्बायोगात् । अथैत होपपरिजिहीर्षयाऽभिव्यक्तः स्फोटोऽथ प्रत्याययतीति कक्षी क्रियते तथाऽप्यभिव्यञ्जयन्तो वर्णाः किं प्रत्येकमभिव्यञ्जयन्ति संभूय वा । पक्षद्वयेऽपि वर्णानां वाचकत्वपक्षे भवता ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जकत्वपक्षे यावर्तनीयाः । तदुक्तं भट्टाचार्मीमांसाश्लोकवार्तिके
. यस्यानघयवः रफोटो व्यज्यते वर्णबुद्धिभिः। - सोऽपि पर्यनुयोगेन नैकेनापि विमुच्यते ।। इति । . विभक्त्यन्तेष्वेव वर्णेषु ' सुप्तिङन्तं पदम् ' ( पा० सू० १ । ४ । १४ ) इति पाणिनिना 'ते विभक्त्यन्ताः पदम् ' ( गौ० सू० २ । २ । ६० ) इति गौतमेन च पदसंज्ञाया विहितत्वात्संकेतहणेनानग्रहदशादर्णेष्वेव पदबुद्धिर्भविध्यति । तर्हि सर इत्येतस्मिन्पदे यावन्तो वर्णास्तावन्त एव रस इत्यत्रापि । एवं वनं नवं नदी दीना रामो मारो राजा जारेत्यादिष्वर्थमेदप्रतीतिर्न स्यादिति चेन्न । मभेदेन भेदसंभवात् । तदुक्तं तौतानित:
यावन्तो यादृशा ये च यदर्थप्रतिपादने । वर्णाः प्रज्ञातसामस्तेि तथैवावबोधकाः ॥ इति ।
१ ख. ङ.-च. °ट इति वा २ ख. ड.-च. ग्यः स्फुटी । ३ ख. 'ब्दार्थ नि । ४ ख. ग. स्फोटार्थ । ५ क. ग. ङ. च. 'थाऽभि । ६ क.-हु. °षु पा । ७ च. क्त्यन्तं प । ८ घ. 'ग्रहे णानु । ९ ख. ग. चेत्काश । ११ च. °मवतामेव वर्णानां पाचकत्वसामर्थ्याभ्युपगमात् । त। ११ क. तू । तदेतत्का।