________________
पाणिनिदर्शनम् ।
११३ तस्माद्यश्चोभयोः समो दोषो न तेनैकश्वोद्यो भवतीति न्यायावर्णानामेव वाचकत्वोपपत्तौ नातिरिक्तस्फोटकल्पनाऽवकल्पत इति चेत्तदेतत्काशकुशावलम्बनकल्पम् । विकल्पानुपपत्तेः । किं वर्णमात्रं पदप्रत्ययावलम्बनं वर्णसमूहो था। नाऽऽद्यः । परस्परविलक्षणवर्णमालायामभिन्नं निमित्तं पुष्पेषु विना सूत्रं मालापत्ययवदित्येकं पदमिति प्रतिपत्तेरनुपपत्तेः । नापि द्वितीयः । उच्चरितप्रध्वस्तानां वर्णानां समूहभाँवासंभवात् । तत्र हि समूहव्यपदेशो ये पदार्थी एकस्मिन्प्रदेशे सहावस्थिततया बहवोऽनुभूयन्ते । यथैकस्मिन्प्रदेशे सहावस्थितंतयाऽनुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशो यथा वा गजनरतुरगादिषु । न च ते वर्णास्तथाऽनुभूयन्ते । उत्पन्नध्वस्तत्वात् । अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यक्तिः । समूहासंभवात् । नापि वर्णेषु काल्पनिकः समूहः कल्पनीयः । परस्पराश्रयप्रसङ्गात् । एकार्थप्रत्यायकत्वसिद्धौ तदुपाधिना वर्णेषु पदत्वप्रतीतिस्तत्सिद्धावेकार्थप्रत्यायकत्वसिद्धिरिति । तस्माद्वर्णानी वाचकत्वासंभवात्स्फोटोऽभ्युपगन्तव्यः ।
ननु स्फोटव्यञ्जकतापक्षेऽपि प्रागुक्तविकल्पप्रसरेण घट्टफुटीप्रभातायितमिति चेत्तदेतन्मनोराज्यविज़म्भणम् । वैषम्यसंभवात् । तथाहि-अभिव्यञ्जकोऽपि प्रथमो ध्वनिः स्फोटमस्फुटमभिव्यनक्ति । उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुट स्फुटतरं स्फुटतमम् । यथा स्वाध्यायः सकृत्पठ्यमानो नावधार्यते । अभ्यासेन तु स्फुटावसायः । यथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटं न चकास्ति । चरमे चेतसि यथावदभिव्यज्यते ।
* नादैरोहितबीजायामन्त्येन ध्वनिना सह । ___ आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ ( वाक्यप० १ । ८५) इति प्रामाणिकोक्तेः । तस्मादस्माच्छब्दादर्थ प्रतिपद्यामह इति व्यवहारवशा. द्वर्णानामर्थवाचकत्वानुपपत्तेः प्रथमे काण्डे तत्रभवद्भिर्भर्तृहरिभिरभिहितत्वान्निरवयवमर्थप्रत्यायकं शब्दतत्त्वं स्फोटाख्यमभ्युपगन्तव्यमिति । एतत्सर्व परमा
* घ. पु. टि.--नादाघातजन्या।
१ ख. घ. डा.-च मूहे वा। २ क. ख. ग. घ समूहाभा । ३ ख. °भावसं । ४ घ. तया । ५५. तया । ६ घ. व्यक्तस्य स । ७ घ. 'नीयस्य प । ८ घ. कसि । ९ च. 'नां साधनास्मकत्वसं । १० °कुहिन । ११ क. ख. ग. घ. °टः स्फु। १२ घ. राहत । १३ क. ख, ग, घ, 'मन्येन । १४ च. °ति व्य । १५ घ. °म इ°। १६ क. ख. ग. स्फाटेभावम।