SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सनदर्शनसंग्रहेथसंविल्लक्षणसत्ताजातिरेव सर्वेषां शब्दानामर्थ इति प्रतिपादनपरे जातिसमुद्देशे प्रतिपादितम् । यदि सत्तैव सर्वेषां शब्दानामर्थस्तर्हि सर्वेषां शब्दानां पर्यायता स्यात् । तथा च कचिदपि युगपत्रिचतुरपदप्रयोगायोग इति महच्चातुर्यमायुष्मतः । तदुक्तम् पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते । पर्यायेणैव ते यस्माद्वदन्त्यर्थं न संहताः ॥ इति । तस्मादयं पक्षो न क्षोदक्षन इति चेत्तदेतद्गगनरोमन्थकल्पम् । नीललोहितपीतापरञ्जकद्रव्यभेदेनं स्फटिकमणेरिव संबन्धिभेदात्सत्तायास्तदात्मना भेदेन प्रतिपत्तिसिद्धौ गोसत्तादिरूपगोत्वादिभेदनिवन्धनव्यवहारवैलक्षण्योपपत्तेः। तथा चाऽऽप्तवाक्यम् स्फटिकं विमलं द्रव्यं यथा युक्तं पृथक्पृथक् । नीललोहितपीतायैस्तद्वर्णमुपलभ्यते ।। इति । तथा हरिणाऽप्युक्तम् संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थे च धात्वर्थ च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ इति । . आश्रयभूतैः संबन्धिभिभिंद्यमाना कल्पितभेदों गवाश्वादिषु सत्तैव महासामान्यमेव जातिः । गोत्यादिकमपरं सामान्यं परमार्थतस्तो भिन्नं न भवति । गोस व गोत्वं नापरमन्वयि प्रतिभासते । एवमश्वसत्ताऽश्वत्वमित्यादि वाच्यम् । एवं च तस्यामेव गवादिभेदभिन्नायां सत्तायां जातौ सर्वे गोशब्दादयो वाचकत्वेन व्यवस्थिताः । प्रातिपदिकार्थश्च सत्तेति प्रसिद्धम् । भाववचनो धातुरिति पक्षे भावः सत्तैवेति धात्वर्थः सत्ता भवत्येव । क्रियावचनो धातुरिति पक्षेऽपि । जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् ।। इति क्रियासमुद्देशे क्रियाया जातिरूपत्वप्रतिपादनाद्धात्वर्थः सत्ता भवत्येव । तस्य भावस्त्वतलाविति ( पा० सू० ५। १ । ११९ ) भावार्थे त्वतलादीनां विधानात्सत्तावाचित्वं युक्तम् । सा च सत्तोदयव्ययवेधुर्यान्नित्या । सर्वस्य १ क. तिरेव सर्वेषां शब्दानामर्थ इति प्र । २ क, न प्रतिपत्तिसिद्धौ स्फ° । ३ घ. या चोक्तं महद्भिरिदं वा । ४ ख. विद्यमाना । ५ क. भेदो ग । ६ घ. दिकं प° । ७ क. ख. ग. घ. ङ. °ति । जातिपदार्थनयानुसारेणानेकव्यक्तिक्रि । ८ घ. °C नित्या।
SR No.002416
Book TitleSarva Darshan Sangraha
Original Sutra AuthorN/A
AuthorVinayak Ganesh
PublisherAnand Ashram
Publication Year1928
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy