________________
पाणिनिदर्शनम् ।
११५ प्रपञ्चस्य तद्विवर्ततया देशतः कालतो वस्तुतश्च परिच्छेदराहित्यात्सा सत्ता महानात्मेति व्यपदिश्यत इति कारिकाद्वयार्थः ।
द्रव्यपदार्थवादिनोऽपि नये संविलक्षणं तत्त्वमेव सर्वशब्दार्थ इति संबन्धसमुद्देशे समर्थितम्
सत्यं वस्तु तदाकारैरसत्यैरवधार्यते । असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ।।
अध्रुषेण निमित्तेन देवदत्तगृहं यथा । .. गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥ इति । भाष्यकारेणापि सिद्धे शब्दार्थसंबन्ध इत्येतद्वार्तिकव्याख्यानावसरे द्रव्यं हि नित्यमित्यनेन ग्रन्थेनासत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यं सर्वशब्दार्थ इति निरूपितम् ।
जातिशब्दार्थवाचिनो वाजप्यायनस्य मते गवादयः शब्दा भिन्नद्रव्यसम. वेतजातिमभिदधति । तस्यामवगाह्यमानायां तत्संबन्धाद्रव्यमवगम्यते । शुक्लादयः शब्दा गुणसमवेतां जातिमाचक्षते । गुणे तत्संबन्धात्प्रत्ययः । द्रव्ये संब. न्धिसंबन्धात्। संज्ञाशब्दानामुत्पत्तिप्रभृत्या विनाशाच्छैशवकौमारयौवनाद्यवस्था. दिभेदेऽपि स एवायमित्यभिन्नप्रत्ययबलात्सिद्धा देवदत्तत्वादिजातिरभ्युप: गन्तव्या । क्रियास्वपि जातिरालक्ष्यते । सैव धातुवाच्या। पंचतीत्यादावनु. वृत्तप्रत्ययस्य प्रादुर्भावात् । द्रव्यपदार्थवादिव्याँडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासते। जातिस्तूपलक्षणतयति नाऽऽनन्त्यादिदोषावकाशः । पाणिन्याचार्यस्योभयं संमतम् । यतो जातिपदार्थमभ्युपगम्य जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (पा० सू० १।२।५८) इत्यादिव्यवहारः । द्रव्यपदार्थमङ्गीकृत्य सरूपाणामेकशेष एकविभक्तौ ( पा० सू० १ । २ । ६४ ) इत्यादिः। व्याकरणस्य सर्वपार्षदत्वान्मतद्वयाभ्युपगमे न कश्चिद्विरोधः । तस्मादद्वयं सत्यं परं ब्रह्मतत्त्वं सर्वशब्दार्थ इति स्थितम् । तदुक्तम् -
तस्माच्छक्तिविभागेन सत्यः सवेः सदात्मकः । एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ इति ।
१ च. तत्त्वशब्दं द्र ।२ क.-ग. ङ. च. °भिप्र । ३ क.ग. °सिद्धत्वा । ख. सिद्वादिजा । घ. 'सिद्धा जा । ४ ङ.-च. पठती । ५ क.ख.त् । न द्र। ग. त् । स्वद्र। ६ घ. व्यालिन। ७ क. ख. ग. दिः । इत्यादिव्या । ८ क. सर्व पा। ९ घ. ब्राह्म। १० ख. एकार्थश। ११ क. ग. घ. कोऽर्थश।