________________
सर्वदर्शनसंग्रहेसत्यस्वरूपमपि हरिणोक्तं संबन्धसमुद्देशे--
यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । .
तस्यैवार्थस्य सत्यत्वमाहस्त्रय्यन्तवेदिनः ॥ इति । द्रव्यसमुद्देशेऽपि
विकारापगमे सत्यं सुवर्ण कुण्डले यथा ।
विकारापगमो यत्र तामाहुः प्रकृति पराम् ॥ इति । अभ्युपगंताद्वितीयत्वनिर्वाहाय वाच्यवाचकयोरविभागः प्रदर्शित:
वाच्या सा सर्वशब्दानां शब्दाच न पृथक्ततः। .
अपृथक्त्वेऽपि संबन्धस्तयोर्जीवात्मनोरिव ॥ इति । तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्याविद्यामात्रैकल्पितत्वेन प्रतिनियताकारोपधीयमानरूपभेदं ब्रह्मतत्त्वं सर्वशब्दविषयः । अभेदे च पारमार्थिक संवृतिवशाद्वयवहारदशायां स्वप्नावस्थावदुच्चावचः प्रपञ्चो विवर्तत इति कारिकार्थः । तदाहुर्वेदान्तवादनिपुणाः
यथा स्वमप्रपश्चोऽयं माय मायाविजृम्भितः ।
एवं जाग्रत्मपश्चोऽपि मयि मायाविजृम्भितः ॥ इति । तदित्यं कूटस्थे परस्मिन्ब्रह्मणि सच्चिदानन्दरूपे प्रत्यगभिन्नेऽवगतेऽनाधविद्यानिवृत्तौ ताहूँग्ब्रह्मात्मनाऽवस्थानलक्षणं निःश्रेयसं सेत्स्यति ।
शब्दब्रह्मगि निष्णातः परं ब्रह्माधिगच्छति । इत्यभियुक्तोक्तेः । तथा च शब्दानुशासनशास्त्रस्य निःश्रेयससाधनत्वं सिद्धम् । तदुक्तम्
तवारमपवर्गस्य वाङ्मलानां चिकित्सितम् ।
पवित्रं सर्वविद्यानामधिविद्यं प्रचक्षते ॥ (वाक्यप०१।१४) इति । तथा-इदमायं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षर्माणानामजिह्मा राजपद्धतिः ॥ (वाक्यप० १११६) इति । तस्माद्व्याकरणशास्त्रं परमपुरुषार्थसाधनतयाऽध्येतव्यमिति सिद्धम् ।
इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पाणिनिदर्शनम् ॥
१ घ गमेऽवाऽऽहुः प्रकृतिं च प । च. गमे सत्यां ता । २ घ. गतद्वितीयत्वनिर्वाहार्थे वाचकयोविभा । ३ ख. °त्रपरिक । ४ ख. न । ५ घ. "वादिनि । ६ क. ख. "दृगब्रह्मा । ७ घ. 'नपार्व' । ८ क.-ग ङ. च. मार्गाणाम । ९ घ. राज्ययावति । १० घ. तद्वया ।