________________
११७
सांख्यदर्शनम् । अथ सांख्यदर्शनम् ॥ १४ ॥
अथ सांख्यैराख्याते परिणामवादे परिपन्थिान जागरूके कथंकारं विवर्तवाद आदरणीयो भवेत् । एष हि तेषामाघोषः । संक्षेपेण हि सांख्यशास्त्रे चतस्रो विधाः संभाव्यन्ते । कश्चिदर्थः प्रकृतिरेव कश्चिद्विकृतिः प्रकृतिश्च कश्चिद्विकृतिरेव कश्चिदनुभय इति ।
तत्र केवला प्रकृतिः प्रधानपदेन वेदनीया मूलप्रकृतिः । नासावन्यस्य कस्यचिद्विकृतिः । प्रकरोतीति प्रकृतिरिति व्युत्पत्या सत्त्वरजस्तमोगुणानां साम्यावस्थाया अभिधानात् । तदुक्तं-मूलप्रकृतिरविकृतिरिति ( स० का० ३)। मूलं चासौ प्रकृतिश्च मूलप्रकृतिः । महदादेः कार्यकलापस्यासौ मूलं न त्वस्य प्रधानस्य मूलान्तरमस्ति । अनवस्थापातात् । न च बीजाकुरवदनवस्थादोषो न भवतीति वाच्यम् । प्रमाणाभावादिति भावः ।
विकृतयश्च प्रकृतयश्च महदहंकारतन्मात्राणि । तदप्युक्तं-महदायाः प्रकृ. तिविकृतयः सप्तेति ( स० का० ३ ) । अस्यार्थ:-प्रकृतयश्च ता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदादीनि तत्त्वानि । तत्रान्त: करणादिपदवेदनीयं महत्तत्त्वमहंकारस्य प्रकृतिः । मूलप्रकृतेस्तु विकृतिः । एवमहंकारतत्त्वमभिमानापरनामधेयं महतो विकृतिः । प्रकृतिश्च तदेवाहंकारतत्वं तामसं सत्पश्चतन्मात्राणां सूक्ष्माभिधानाम् । तदेव सात्त्विकं सत्प्रकृतिरेकादशेन्द्रियाणां बुद्धीन्द्रियाणां चक्षुःश्रोत्रघाणरसनत्वगाख्यानां कर्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य मनसश्च । रजसस्तूभयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति न वैयर्थ्यम् । तदुक्तमीश्वरकृष्णेन
अभिमानोऽहंकारस्तस्माद्विविधः प्रवर्तते सर्गः । एकादशकरणगणस्तन्मात्रापश्चकं चैव ॥ सात्त्वि एकादशकः प्रवर्तते वैकृतादहंकारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पादपाणिपायूपस्थानि कर्मेन्द्रियाण्याहुः॥ १च.-क्वचिद । २ ग. द्विवृतिः । ३ ग. द्विवृतिः । ४ घ. मला चा । ५ घ. त्वं नाम ता' । ६ ख. ग. °णम । ७ क.-ग. ङ. च. कश्च ग° । ८ क.--ग. ङ. च. °कमेकादशकः प्र। ९ क. ख. ग. घ. स्थाख्यामि ।