________________
सर्वदर्शनसंग्रहेउभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साधादिति (सां०का०२४।२७) विवृतं च तत्त्वकौमुद्यामाचार्यवाचस्पतिभिः।
केवला विकृतिस्तु वियदादीनि पञ्च महाभूतानि एकादशेन्द्रियाणि च । खदुक्तं-पोडशकस्तु विकारः ( सां० का० ३) इति । षोडशसंख्यावच्छिन्नो मणः षोडशको विकार एव न प्रकृतिरित्यर्थः । यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथाऽपि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः । तत्त्वासरोपादानत्वं चेह प्रकृतित्वमभिमतम् । गोघटादीनां स्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन तत्त्वान्तरत्वाभावः। तत्र शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यः पूर्वपूर्वसक्ष्मभूतसहितेभ्यः पञ्चै महाभूतानि वियदादीनि क्रमेणैकद्वित्रिचतुष्पश्चगुजानि जायन्ते । इन्द्रियसृष्टिस्तु प्रागेवोक्ता । तदुक्तम्
प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ (सां०का०२२) इति । अनुभयात्मकः पुरुषः । तदुक्तं-न प्रकृतिर्न विकृतिः पुरुषः( सां०का०३) इति । पुरुषस्तु कूटस्थानित्योऽपरिणामी न कस्यचित्प्रकृति पि. विकृतिः कस्यचिदित्यर्थः। - एतत्पश्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतम् । तदप्युक्तम्___ष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ (सां०का० ४) इति । का कार्यकारणभावे चतुर्धा विप्रतिपत्तिः प्रसरति । असतः सज्जायत इति सौगता: *संगिरन्ते । नैयायिकादयः सतोऽसज्जायत इति । वेदान्तिनः सतो विवर्तः कार्यजातं न वस्तु सदिति । सांख्याः पुनः सतः सज्जायत इति ।
तत्रासतः सज्जायत इति न प्रामाणिकः पक्षः । असतो निरुपाख्यस्य शविषाणवत्कारणत्वानुपपत्तेः । तुच्छ।तुच्छयोस्तादात्म्यानुपपत्तेश्च ।
नापि सतोऽसज्जायते । कारकव्यापारात्मागसतः शशविषाणवत्सत्तासं. धन्धलक्षणोत्पत्त्यनुपपत्तेः । न हि नीलं निपुणतमेनापि पीतं कर्तुं पार्यते । ननु सत्त्वासत्त्वे घटस्य धर्माविति चेत्तदचारु । असति धर्मिणि तद्धर्म इति व्यपदेशा. नुपपत्त्या धर्मिणः सत्त्वापत्तेः।
* घ. पु. टि.--संप्रतिपद्यन्ते।
१ घ. यं चति । उभयसाधर्म्यात् । वि। २ ख. ग. ङ.-च. श्च । ३ इ. च. 'च भू । ४ घ. त्पत्तेरसंभवात् । न।