________________
सांख्यदर्शनम् ।
तस्मात्कारकव्यापारात्मागपि कार्य सदेव । सतश्चाभिव्यक्तिरुपपद्यते । यथा पीडनेन तिलेषु तैलस्य दोहनेन सौरभेयीषु पयसः । असतः कारणे किमपि निदर्शनं न दृश्यते । किंच कार्येण कारणं संबद्धं तज्जनकमसंबई वा । प्रथमे कार्यस्य सत्त्वमायातम् । सतोरेव संबन्ध इति नियमात् । चस्मे सर्व कार्यजातं सर्वस्माज्जायत । असंबंद्धत्वाविशेषात् । तदाख्यायि सांख्याचार्य:
असत्त्वान्नास्ति संबन्धः कारणः सत्त्वसङ्गिभिः।
असंबद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥ इति । अथैवमुच्येतासंबंद्धमपि तत्तदेव जनयति यत्र यच्छक्तम् । शक्तिश्च कार्यदर्शनोनेयेति । तन्न संगच्छते । तिलेषु तैलजननशक्तिरित्यत्र तैलस्यासत्त्वे संबद्धत्वासंबद्धत्वविकल्पेन तच्छक्तिरिति निरूपणायोगात् । कार्यकारणयोरभेदांच कोरणात्पृथक्कार्यस्य सत्त्वं न भवति । पटस्तन्तुभ्यो न भिद्यते । तद्धर्मत्वात् । न यदेवं न तदेवं यथा गौरश्वः । तद्धर्मश्च पटः । तस्मानार्थान्तरम् । तर्हि प्रत्येक त एव प्रावरणकार्य कुयुरिति पेन्न । संस्थानभेदेनाऽऽविर्भूतपटभावानां प्रावरणाथक्रियाकारित्वोपपत्तेः । यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरो भवन्ति निःसरन्ति चाऽऽविर्भवन्त्येवं कारणस्य तन्त्वादेः पटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते । निविशमानास्तिरो भवन्तो विनश्यन्तीत्युच्यन्ते । न पुनरसतामुत्पत्तिः सतां वा विनाशः । यथोक्तं भगवद्गीतायाम्
. नासतो विद्यते भावो नाभावो विद्यते सतः । (२।१६) इति । ततश्च कार्यानुमानात्तत्प्रधानसिद्धिः । तदुक्तम्
असदैकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ॥ (सा० का० ९) इति । नापि सतो ब्रह्मतत्त्वस्य विवर्तः प्रपञ्चः । बाधानुपलम्भात् । अधिष्ठानारोप्ययोश्चिज्जडयोः कलधौतशुक्त्यादिवत्सारूप्याभावीऽऽरोपासंभवाच्च ।
१ घ. देवास। २ घ. °नं दृ" । ३ ख. "द्धं सत्तज'। ४ ख. जायते । अ। ५ च. 'बन्धत्वा । ६ क.-ग. च. °बन्धम । ७ क. ख. ग. घ. पि तदे । ८ ङ.-च. त् । पृथ न । ९ क. कार्यस्यासत्त्वं न । ग. कार्यस्य सत्वं न । घ. कार्यस्य सत्त्वं कारणात्पृथ' । १० प. स्थाभे । ११ च. सदुपकरणादुपादानान । १२ क.--ग. च. °दकारणत्वादु । १३ ख. ग. 'रणाभा । १४ क.-ग. ङ. च. तरूप्यादि । १५ क. ख रूप्याभेदेनापि सं° । ग. रूपयाभेदेनारोपास । च.-रूप्यभा । १६ घ. 'नापि संभवाभावा ।