________________
सर्वदर्शनसंग्रहे-- ततश्च सुखदुःखमोहात्मकस्य प्रपञ्चस्य तथाविधकारणमवधारणीयम् । तथा च प्रयोगः-विमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात् । यद्येनान्बीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितं सुवर्णकारणकम् । तथा चेदं तस्मात्तथेति । तत्र जगत्कारणे येयं सुखात्मकता तत्सत्त्वं या दुःखात्मकता तद्रजो या च मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः । तथाहि-प्रत्येकं भावास्यगुण्यवन्तोऽनुभयन्ते । यथा मैत्रदारेषु सत्यवत्यां मैत्रस्य सुखमाविरस्ति । तं प्रति सत्त्वगुणप्रादुर्भावात् । तत्सपत्नीनां दुःखम् । ताः प्रति रजोगुणप्रादुर्भावात् । तामलभमानस्य चैत्रस्य मोहो भवति । तं प्रति तमोगुणसमुद्भवात् । एवमन्यदपि घटादिकं लभ्यमानं सुखं करोति । परैरपह्रियमाणं दुःखा करोति । उदासीनस्योपेक्षाविषयत्वेनापतिष्ठते । उपेक्षाविषयत्वं नाम मोहः । मुह वैचित्ये, इत्यस्माद्धातोर्मोहशब्दनिष्पत्तेः। उपेक्षणीयेषु चित्त वृत्त्यनुदयात् । तस्मात्सर्वं भावजातं सुखदुःखमोहात्मकं त्रिगुणप्रधानकारणकमवगम्यते । तथा च श्वेतश्वतरोपनिषदि श्रयते
अजामेकां लोहितशुक्ल कृष्णां बह्वीः *प्रजाः सृजमानां सरूपाः ।
अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः।।(४।५)इति। अत्र लोहितशुकृष्णशब्दा रञ्जकत्वप्रकाशकत्वावरकत्वसाधोद्रजःसत्त्वतमो. गुणत्रयप्रतिपादनपराः।
नवचेतनं प्रधानं चेतनानाधिष्ठितं महदादिकार्ये न व्याप्रियते । अतः केनचिचेतनेनाधिष्ठात्रा भवितव्यम् । तथा च सर्वार्थदर्शी परमेश्वरः स्वीकर्तव्यः स्यादिति चेत्तदसंगतम् । अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थाय प्रवर्तमानं यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते यथा च जलमचेतनं लोकोपकाराय प्रवर्तते तथा प्रकृतिरचेतनाऽपि पुरुषविमोक्षाय प्रवस्य॑ति । तदुक्तम्
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ( सां० का० ५७) इति । यस्तु परमेश्वरः करुणया प्रवर्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः सं गर्भस्रावेण गतः। विकल्पानुपपत्तेः । स किं सृष्टेः प्राक्प्रवर्तते सृष्टयुत्तरकालं वा।
___* सर्वदर्शनसंग्रहपुस्तकेषु तु प्रजा जनयन्तीमिति पाठः ।
१ क.-. "स्य त । २ क.--"वर्णाका' । ३ क तत्पत्नी । ग. तत्पतीनां । ४ च. त्वेन ध्यवति । ५ ख. पि प्रयो । ६ क. ख. ग. घ पार्थे प्र । ७ क. ख. ग. वृद्ध्यर्थ क्षी' ।
क.--ङ. स प्रायेण ।