________________
सांख्यदर्शनम् ।
१२१ आये शरीराद्यभावेन दुःखानुत्पत्तौ जीवानां दुःखप्रहाणेच्छानुपपत्तिः । द्वितीये परस्पराश्रयप्रसङ्गः । करुणया सृष्टिः सृष्टयां च कारुण्यमिति । तस्मादचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुपार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः । यथा निर्व्यापारस्याप्ययस्कान्तस्य संनिधानेन लोहस्य व्यापारस्तथा निर्व्यापारस्य पुरुषस्य संनिधानेन प्रधानव्यापारो युज्यते । प्रकृतिपुरुषसंबन्धश्च पङ्ग्वन्धवत्परस्परापेक्षानिबन्धनः । प्रकृतिर्हि भोग्यतया भोक्तारं पुरुष:पेक्षते । पुरुषोऽपि भेदाग्रहाबुद्धिच्छायापत्त्या तद्गतं दुःखत्रयं वारयमाणः कैवल्यमपेक्षते । तत्प्रकृतिपुरुषविवेकनिबन्धनं न च तदन्तरेण युक्तमिति कैवल्यार्थ पुरुषः प्रधानमपेक्षते । यथा खलु कौचित्पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ दैवकृतादुपप्लवात्परित्यक्तसार्थों मन्दमन्द. मितस्ततः परिभ्रमन्तो भयाकुलौ दैववशात्संयोगमुपगच्छेताम् । तत्र चान्धेन पङ्गुः स्कन्धमारोपितः। ततश्च पगुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राप्नोति पगुरपि स्कन्धाधिरूढः । तथा परस्परापेक्षप्रधानपुरुषनिबन्धनः सर्गः । यथोक्तम्--
पुरुषस्य दर्शनार्थं कैवल्यार्थ तथा प्रधानस्य । .
पवन्धवदुभयोरपि संबन्धस्तत्कृतः सर्गः।। (सां०का०२१) इति । ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः प्रवृत्तिः । निवृत्तिस्तु कथमुपपद्यत इति चेदुच्यते । यथा भर्ना दृष्टदोषा स्वैरिणी भर्तारं पुनर्नोपैति यथा वा कृतप्रयोजना नर्तकी निवर्तते तथा प्रकृतिरपि । यथोक्तम्
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।। पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ सां०का०५९) इति । एतच्च निरीश्वरसांख्यशास्त्रप्रवर्तककपिलादिमतानुसारिणां मतमुपन्यस्तम् ।
इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे सांख्यदर्शनम् ॥
१ ख. सृष्टेः का । २ घ. 'ट्या का। ३ क. ख. ग. घ. युक्तप्र । ४ च. षनिबन्ध । ५ क. ख. °न्धनो न । ६ ग. ङ. ततः प० । ७ च. °नदर्शनसंबन्धनि । ८ घ. की नर्तनं त°। च. °की नृत्यानिव। ९ क. नृत्तात् । १० ख. घ. 'थाऽऽनन्दं प्र। ११ घ. तदर्थे नि । १२ ख. ङ..