________________
पाणिनिदर्शनम् । महता देवेन परेण ब्रह्मणा साम्यमुक्तं स्यादिति ( पात० म० भा० पृ० ३ पं० १७)।
जगनिदानं स्फोटाख्यो निरवयवो नित्यः शब्दो ब्रह्मैवेति हरिणाऽभाणि ब्रह्मकाण्डे
अनादिनिधनं ब्रह्म शब्दतत्त्वं तदक्षरम् ।
विवर्ततेऽर्थभावेन *प्रक्रिया जगतो यतः ॥(वाक्यप०१।१)इति । ननु नामाख्यातभेदेन पदद्वविध्यप्रतीतेः कथं चातुर्विध्यमुक्तमिति चेन्मैवम् । प्रकारान्तरस्य प्रसिद्धत्वात् । तदुक्तं प्रकीर्णके____द्विधा कैश्चित्पदं भिन्नं चतुर्थी पञ्चधाऽपि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ इति । कर्मप्रवचनीयेन वै पञ्चमेन सह पदस्य पञ्चविधत्वमिति हेलाराजो व्याख्यात. वान् । कर्मप्रवचनीयास्तु क्रियाविशेषोपजनितसंबन्धावच्छेदहेतव इति संबन्धविशेषद्योतनद्वारेण क्रियाविशेषद्योतनादुपसर्गेष्वेवान्तर्भवन्तीत्यभिसंधाय पदचातुर्विध्यं भाष्यकारेणोक्तं युक्तमिति विवेक्तव्यम् ।
ननु भवता स्फोटात्मा नित्यः शब्द इति निजागद्यते । तन्न मृष्यामहे । तत्र प्रमाणाभावादिति केचित् । अत्रोच्यते-प्रत्यक्षमेवात्र प्रमाणम् । गौरित्येकं पदमिति नानावर्णातिरिक्तैकपदावगतः सर्वजनीनत्वात् । न ह्यसति बाधके पदानुभवः शक्यो मिथ्यति वक्तुम् । पदार्थप्रतीत्यन्यथानुपपत्त्याऽपि स्फोटोsभ्युपगन्तव्यः । न च वर्णेभ्य एव तत्प्रत्ययः प्रार्दुर्भवतीति परीक्षाक्षम् । विकल्पासहत्वात् । किं वर्णाः समस्ता व्यस्ता वाऽर्थप्रत्ययं जनयन्ति । नाऽऽधः । वर्णानां क्षणिकानां समूहासंभवात् । नान्त्यः । व्यस्तवर्णेभ्योऽर्थअत्ययासंभवात् । न च व्याससमासाभ्यामन्यः प्रकारः समस्तीति । तस्माद
** घ. पु. टि.-स्त्रविषयमतत्ताके स्वभावे न मायया।
१ घ. °णा क्षरव । २ क.--टु. यदक्षरम् । ३ क, म्। निवर्तते । च. म् । विवक्षते । ४ च. ध्यप्रसिद्धः क । ५ घ. निगदते । ६ च. "दुर्भावपरीक्षाक्षमो वि । ७ च. किं व्यस्ता वणों अर्थ प्रतिपादयन्ति समस्ता वा । नाऽऽद्यः । इतरवर्णवैयर्थ्यप्रसङ्गात । एकैकस्माद्वर्णादर्थप्रतिपत्तेश्च । नापि द्वितीयः । उत्पन्नप्रध्वस्तवर्णानां समस्तत्वाभावात् । न च व्या" । रघ. मस्तवर्णा व्यस्तववा । नाऽऽद्यः । वर्णानां स । ९ ख.वा। ना।१० क.ग.न्ति समस्ता वा । ना । ११ क. ग. °द्यः । ततोऽर्थप्रत्ययानुपलब्धेः । न द्वितीयः। क्ष° । १२ क. ग. समुदायासं । १३ क. ग.त् न च । १४ घ. प्रत्यायकत्वासं । १५ क. 'माभ्याम । १६ ग. 'भ्यासम'।