________________
सर्वदर्शनसंग्रहे-- लाव इत्यादीनां बहूनां शब्दानामनुशासनमुपलभ्यते । एवमातोऽनुपसर्गे का (पा० सू० ३ । २। ३ ) इत्येकेन विशेषलक्षणेनाऽऽकारान्तादातो: कात्यये कृते धान्यदो धनद इत्यादीनां बहूनां शब्दानामनुशासनमुपलभ्यते । बृहस्पतिरिन्द्रायेति प्रतिपदपाठस्याशक्यत्वप्रतिपादनपैरोऽर्थवादः ।
नन्वन्येष्वप्यङ्गेषु सत्सु किमित्येतदेवाऽऽद्रियते । उच्यते । प्रधानं च षट्स्वङ्गेषु व्याकरणम् । प्रधाने च कृतो यत्नः फलवान्भवति । तदुक्तम्
आसनं ब्रह्मणस्तस्य तपसामुत्तमं तपः। .
प्रथमं छन्दसामङ्गमा व्याकरणं बुधाः ॥(वाक्यप०१।११)इति । तस्माद्वयाकरणशास्त्रस्य शब्दानुशासनं भवति साक्षात्प्रयोजनम् । पारम्पर्येण तु वेदरक्षादीनि । अत एवोक्तं भगवता भाष्यकारे ग-रक्षोहागमलध्वसंदेहाः अयोजनमिति (पा० म० भा० १।१।१)। ___ साधुशब्दप्रयोगवशादभ्युदयोऽपि भवति । तथा च कथितं कात्यायनेनशास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देनेति । अन्यैरप्युक्तम्-एकः शब्दः सम्यग्ज्ञातः सुठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति । तथा
नाकमिष्टसुखं यान्ति सुयुक्तैर्बद्धवाग्रथैः।
_अथ पत्काषिणो यान्ति ये चिक्कमितभाषिणः ॥ नवचेतनस्य शब्दस्य कथमीदृशं सामर्थ्यमुपपद्यत इति चेन्मैवं मन्येथाः । महता देवेन साम्यश्रवणात् । तदाह श्रुतिः
चत्वारि शङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तामो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मत्या आविवेश ॥(म० ना०१०।१)। व्याचकार च भाष्यकार:-चत्वारि शृङ्गाणि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः । त्रयो अस्य पादा लडादिविषयास्त्रयो भूतभविष्यद्वर्तमानकालाः । द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यश्च । व्यङ्गन्यव्यञ्जकभेदात् । सप्त हस्तासो अस्य तिङा सह सप्त सुब्बिभक्तयः । त्रिधा बद्धस्त्रिषु स्थानेषु उरास कण्ठे शिरसि च बद्धः । वृषभ इति प्रसिद्धवृषभत्वेन रूपणं क्रियते । वर्षणात् । वर्षणं च ज्ञानपूर्वकानुष्ठानेन फलप्रदत्वम् । रोरवीति शब्दं करोति । रौतिः शब्दकर्मा । इह शब्दशब्देन प्रपञ्चो विवक्षितः । महो देवो मत्यों आविवेश । महान्देवः शब्दो मां मरणधर्माणो मनुष्यास्तानाविवेशेति ।
- १ च. 'पपद्यते । २.क.-. । र्गे इ । ३ घ. परार्थ । ४ क. पातस्त्र' । ५ क. द्वौ नि'त्यानित्यात्मा' । ६ घ. °न रोरूयणं । ७ क.--"पणश्च ।