________________
पाणिनिदर्शनम् ।
१०९
सेत्स्यतीति चेन्मैवम् । तथा विधानेऽपि तदीयवेदाङ्गन्त्वप्रतिपादक प्रयोजनानभिधाने तेषां प्रवृत्तेरनुपपत्तेः । तथाहि - पुरा किल वेदमधीत्या ध्येतारस्त्वरितं वक्तारो भवन्ति ।
वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः । तस्मादनर्थकं व्याकरणमिति । तस्माद्देदाङ्गत्वं मन्यमानास्तदध्ययने प्रवृत्तिम कार्षुः । ततश्चेदानींतनानामपि तत्र प्रवृत्तिर्न सिध्येत् । सा मा प्रसाङ्क्षीदिति तदीयवेदाङ्गत्वनतिपादकं प्रयोजनमन्वाख्येयमेव । यद्यन्वाख्याते प्रयोजने न वर्तेरंस्तर्हि लौकिकशब्द संस्कारज्ञानरहितास्ते याज्ञे कर्मणि प्रत्यवायभाजो भवेयुः । धर्माद्धीयेरन् । अत एव याज्ञिकाः पठन्ति – आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति । अतस्तदीयवेदाङ्गत्वमतिपादकप्रयोजनान्वाख्यानार्थमथ शब्दानुशासनमित्येव कथ्यते नाथ व्याक रणमिति । भवति च शब्द संस्कारो व्याकरणशास्त्रस्य प्रयोजनम् । तस्य तदुद्देशेन प्रवृत्तेः । यथा स्वर्गोद्देशेन प्रवृत्तस्य यागस्य स्वर्ग: प्रयोजनम् । तस्माच्छन्दानुशिष्टः संस्कारपद वेदनीया शब्दानुशासनस्य प्रयोजनम् ।
3
1
Εν
नन्वेवमप्यभिमतं प्रयोजनं न लभ्यते । तदुपायाभावात् । अथ प्रतिपदपाठ एवाभ्युपाय इति मन्येथास्तर्हि स ानभ्युपयः शब्दानां प्रतिपत्तौ प्रतिपदपाठो भवेत् । शब्दापशब्द भेदेनाऽऽनन्त्याच्छन्दानाम् । एवं हि समान्नायते - बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदपाठाविहितानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम । बृहस्पतिश्च प्रवक्ता इन्द्रोऽध्येता दिव्यं वर्षसहस्रमध्ययनकालः । न च पैौरावाप्तिरभूत् । किमुताय यश्चिरं जीवति स वर्षशतं जीवति । अभीतिबोधाचरणप्रचारणैश्चतुर्भिरुपायैर्विद्यो पयुक्ता भवति । तत्राध्ययनकालेनैव सर्वमायुरुपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठ इति प्रयोजनं न सिध्येदिति चेन्मैवंम् । शब्दप्रतिपत्तेः प्रतिपदपाठ साध्यत्वानङ्गीकारात् । प्रकृत्यादिविभागकल्पनावत्सु लक्ष्येषु सामान्यविशेषरूपाणां लक्षणानां पर्जन्यवत्सकृदेव प्रवृत्तौ बहूनां शब्दानामनुशासनोपलम्भाच्च । तथाहि — कर्मण्यण् (पा० सू० ३ । २ । १ ) इत्येकेन सामान्यरूपेण लक्षणेन कर्मोपपदाद्धातुमात्रादण्प्रत्यये कृते कुम्भकारः काण्ड
१ च. 'जनत्वान' । २ घ वृत्तिं माडका । ३ च °ति । शब्दानुशासनव्या । ४ घ. " पायस' । ५ च. पारप्राप्ति ६ क. -- ङ. | 'ति । अधीतबो' । ७ ग. 'तिबोध्याच' । ८ घ 'मायुः पुरुषस्योप° । ९ च. वं वोचः। थ° ।