________________
१०८
सर्वदर्शनसंग्रहे(पा० सू० २ । २ । १४ ) समासप्रतिषेधसंभवाच्छब्दानुशासनशब्दो न प्रमाणपथमवतरतीति । अत्रायं समाधिरभिधीयते-योस्मन्कृत्मत्यये कर्तकर्मणो. रुभयोः प्राप्तिरस्ति तत्र कर्मण्येव षष्ठी विभक्तिर्भवति न कर्तरीति बहुव्रीहि. विज्ञानबलान्नियम्यते । तद्यथाऽऽश्चर्यो गवां दोहोऽशिक्षितेन गोपालकेनति । कर्तपि षष्ठी भवतीति केचिद्रूवते । अत एवोक्तं काशिकावृत्तौ-केचिदवि. शेषेणैव विभाषामिच्छन्ति शब्दानामनुशासनमाचार्येणाऽऽचार्यस्य वेति । शब्दानुशासनमित्यत्र तु शब्दानामनुशासनं नार्थानामित्येतावतो विवक्षित. स्थार्थस्याऽऽचार्यस्य कर्तुरुपादानेन विनाऽपि सुप्रतिपादत्वादाचार्योपादानमकिंचित्करम् । तस्मादुभयप्राप्तेरभावादुभयप्राप्तौ कर्मणीत्येषा षष्ठी न भवति । किंतु कर्तृकर्मणोः कृतीति ( पा० सू० २ । ३ । ६५) कृयोगे कर्तरि कर्मणि च षष्टी विभक्तिर्भवतीति कृयोगलक्षणा पष्ठी भविष्यति । तथा चेमप्रवश्वनपलाशशातनादिवत्समासो भविष्यति । अथवा शेषलक्षणेयं षष्ठी । तत्र किमपि चोद्यं नावतरत्येव । यद्येवं तर्हि शेषलक्षणायाः षष्ठयाः सर्वत्र मुंवचत्वात्षष्ठीसमासप्रतिषेधसूत्राणामानर्थक्यं प्राप्नुयादिति चेत्सत्यम् । तेषां स्वरचिन्तायामुपयोगो वाक्यपदीय हरिणा प्रादार्शि । तदाह महोपाध्यायवर्धमान:
लौकिकव्यवहारेषु यथेष्टं चेष्टता जनः । वैदिकेषु तु मार्गेषु विशेषोक्तिः प्रवर्तताम् ॥ इति पाणिनिसूत्रोंणामर्थवत्त्वमसौ यतः ।
जनिकतुरिति ब्रूते तत्प्रयोजक इत्यपि ॥ इति । तथा न शब्दानुशासनापरनामधेयं व्याकरणशास्त्रमारचं वेदितव्यमिति वाक्यार्थः संपद्यते ।
तस्यार्थस्य झटिति प्रतिपत्तयेऽथ व्याकरणमित्येवाभिधीयताम् । अथ शब्दानुशासनमित्यधिकारिं मुधोऽभिधीयत इति । मैवम् । शब्दानुशासनमित्यन्वर्थसमाख्योपादाने वदीयवेदाङ्गत्वप्रतिपादकप्रयोजनान्वाख्यानसिः। अन्यथा प्रयोजनानभिधाने व्याकरणाध्ययनेऽध्येतृणां प्रवृत्तिरेव न सजेत् । ननु निष्कारणो धर्मः षडङ्गो वेदोऽध्येतव्य इत्यध्येतव्यत्वविधानादेव प्रवृत्तिः
___ * इत आरभ्य प्रयोजनानभिधान इत्यन्तो ग्रन्थो घ. पुस्तके न विद्यते । १ घ. ति चेदत्रा । २ घ. यस्मात् । ३ घ. "सुलभत्वा । ४ क.- "ये प्रा । ५ घ. त्राणां स्वरमात्रमिदं यतः। ६ क.-ग. ङ. थैमत्राभ्यधाद्यतः । ७ च. °म्। ननु । ८ क. ग. क्षरोपादाने व्या' । ९ ख. °धा न व्या' । १० क. °ति चेन्मै । ११ क. प्रसज्येत । १२ क.-इ. व्यवि ।