________________
१०७
पाणिनिदर्शनम् । तस्माद्धर्मे स्वतःसिद्धप्रमाणभाव ज्योतिष्टोमन स्वर्गकामो यजेतेत्यादिविध्यवादमननामधेयात्मके वेदे यजेतेत्यत्र प्रत्ययः प्रकृत्यर्थोपरक्तां भावनामाभिपत्त इति सिद्ध व्युत्पत्तिमभ्युपगच्छनामभिहितान्वयवादिनां भट्टाचार्याणां सिद्धान्तः । यागविषयं नियोगामिति कार्ये व्युत्पत्तिमनुसरतामन्विताभिधानबादिनां प्रभाकरगुरूणां सिद्धान्त इति सर्वमवदातम् । . इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे जैमिनिदर्शनम् ॥
अथ पाणिनिदर्शनम् ॥ १३ ॥
नवयं प्रकृतिभागोऽयं प्रत्ययभाग इति प्रकृतिप्रत्ययविभागः कथमवगम्यत इति चेत्पीतपातञ्जलजलानामेतच्चाद्यं चमत्कारं न करोति । व्याकरणशास्त्रस्य प्रकृतिप्रत्ययविभागप्रतिपादनपरतायाः प्रसिद्धत्वात् । तथाहि-पतञ्जलेभंगवतो महाभाष्यकारस्येदमादिमं वाक्यम्-अथ शब्दानुशासनमिति (पात० म० भा० शश१)। अस्यार्थी-अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । अधिकारः प्रस्तावः । प्रारम्भ इति यावत् । शब्दानुशासनशब्देन च पाणिनिप्रणीतं व्याकणशास्त्रं विवक्ष्यते । शब्दानुशासनमित्येतापत्यभिधीयमाने संदेहः स्यात् । किं शब्दानुशासनं प्रस्तूयते न वेति । तथा मा प्रसाङ्गीदित्यथशब्दं पायुक्त । अर्थशब्दप्रयोगवलेनार्थान्तरव्युदासेन प्रस्तूयत इत्यस्यार्थस्याभिधीयमानत्वात् । अनेन हि वैदिकाः शब्दाः 'शं नो देवीरभिष्टये' ( अ० सं० १ । १ ) इत्यादयस्तदुपकारिणी लौकिकाः शब्दा गौरश्वः पुरुषो हस्ती शकुनिरित्यादयः भानुशिष्यन्ते व्युत्पाद्य संस्क्रियन्ते प्रकृतिप्रत्ययविभागवत्तया बोध्यन्त इति शब्दानुशासनम् ।
अत्र केचित्पर्यनुयुञ्जते-अनुशासिक्रियायाः सकर्मकत्वात्कर्मभूतस्य शब्दस्य कर्तृभूतस्याऽऽचार्यस्य प्राप्तौ सत्यामुभयप्राप्तौ कणि (पा० सू० २ । ३ । ६६) इत्यनुशासनबलात्कर्मण्येषा षष्ठी विधातव्या । तथा च कर्मणि चेति
१च. 'वेन ज्यो । २ घ. तझ । ३ घ. भावाना। ४ क.-ग. ङ. च. °षयो नियोग इति । ५ °णां राधा । ६ च. भावोऽयं । ७ च. °थंकारम। ८ क. ख. ग. अलाना। च. अलिज । ९ख. ङ.--च. गप । १० च. 'देहो जायते । किं । ११ क. ते वे । ख. ग. घ. ते स्तूयते वे । १२ घ. च. प्रयुक्त । १३ क. °थ प्र । १४ क-टु. °न्त इत्यं ।