________________
१०६
सर्वदर्शनसंग्रहे—
ग्रीमात्रादेव प्रमोत्पत्ति संभवे तदतिरिक्तस्य गुणस्य दोषाभावस्य वा कारणत्वकल्पनायां कल्पनागौरवप्रसङ्गाच्च । ननु दोषस्याप्रपाहेतुत्वेन तदभावस्य प्रेम प्रति हेतुत्वं दुर्निवारमिति चेन्न । दोषाभावस्याप्रमाप्रतिबन्धकत्वेनान्यथासिद्धत्वात् ।
तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः । अप्रामण्यद्वय सत्त्वं तेनोत्सर्गो नयोदितः || इति ।
तथा प्रमाज्ञप्तिरपि ज्ञानज्ञापकसामग्रीत एव जायते । न च संशयानुदयमसङ्गने बाधक इति युक्तं वक्तुम् । सत्यपि प्रतिभासपुष्कलकारणे प्रतिबन्धकदोघादिसमवर्धनात्तदुपपत्तेः । किंच तावकमनुमानं स्वतः प्रमाणं न वा । आधेनैकान्तिकता | द्वितीये तस्यापि परतः प्रामाण्यमेवं तस्य तस्यापीत्यनवस्था दुरवस्था स्यात् ।
१३.
२०
यदत्र कुसुमाञ्जल|बुदयनेन झटिति चुरप्रवृत्तेः प्रामाण्यनिश्चया श्रीनत्वामावमापादयता प्रण्यगादिं । प्रवृत्तिहींच्छामपेक्षते । तत्प्राचुर्य चेच्छाप्राचुर्यम् । इच्छा चेष्टसाधनताज्ञानम् । तच्चेष्टजातीयत्वलिङ्गनुभवम् । सोऽपीन्द्रियार्थसंनिकर्षम् | प्रामाण्यग्रहणं तु न क्वचिदुपयुज्यत इति । तदपि तस्करस्य पुरस्ताकक्षे सुवर्णमुपेत्य सर्वाङ्गोद्घाटनमिव प्रतिभाँति । यतः समीहितसाधनताज्ञानमेव प्रमाणैतयाऽवगम्यमानमिच्छां जनयतीत्यत्रैत्र स्फुट एव प्रामाण्यग्रहणस्वोपयोगः । किंच क्वचिदपि चेन्निर्विचिकित्सा प्रवृत्तिः संशयादपपद्येत तर्हि सर्वश्र तथाभाव संभवात्प्रामाण्यनिश्चयो निरर्थकः स्यात् । तथोक्तम् - अनिश्चितस्य सत्वमेव दुर्लभमिति । यदि सत्त्वं सुलभं भवेत्तदा प्रामाण्यं दत्तजलाञ्जलिक भवेदित्यलमतिप्रपञ्चेन | यस्मादुक्तम् —
२४
२६
तस्मात्सद्बोधकत्वेन प्राप्ता बुद्धेः प्रमाणता । अन्यथा स्वहेतुत्थदो पज्ञानादपोद्यते । इति ।
१ ख. दोषभा । २ ख. प्रमाहे' । ३ ख 'स्याप्रति । ४ घ 'माण्यासत्त्वं तेनोत्सर्गस्य प्रामाण्यस्यानयोदितत्वादिति । ५ ख. 'सत्त्वे ते' । ६ क. 'त्सर्गे न । ७ क. ख. ग. घ. 'ति च यु । ८ च. 'धानवशादनुप° । ९ क. ख. ग. घ. °स्था तदवस्था स्या । १० च प्रकृतप्र' । ११ क. ख. घ. 'दिति । १२ घ. 'हीनेच्छा' । १३ घ. 'ते । किं तत्प्राचुर्यच्छा । १४ क. 'चुर्येच्छा' । ख. 'चुर्ये इच्छा' । 'चुर्ये चे' १५ च ङ्गाभावम् । १६ घ १८ घ. °णं विना क्व' । १९ च मपलपतः स । २० घ. 'पेतं स । २१ क. ङ. भावः । अतः | २२ क.घ.- ङ. 'नज्ञ" । ख. ग. 'नमज्ञा । २३ च. 'णयतोऽव । २४ घ तदभा । २५क. - ग. ङ. च. 'तू ! अ° । २६ क. - ग.
'भवः सोऽ° । १७ घ
1
&
इ. च. 'ति प्रा । २७ घ. अथान्य' ।