________________
जैमिनिदर्शनम् ।
१०५ ध्यामिव वृक्षसामग्री । * अपरथा +तस्याऽऽकस्मिकत्वं प्रसज्येत । तस्मात् =परतस्त्वेन स्वीकृताप्रामाण्य विज्ञानसामान्यसामग्रीजन्याश्रितमित्यतिव्याप्तिरापद्यत । पश्चमविकल्पं विकल्पयामः। किं दोपाभावसहकृतज्ञानसामग्रीजन्य॑त्वमेव ज्ञानसामग्रीमात्रजन्यस्वं किंवा दोषाभावासहकृतज्ञानसामग्रीजन्यत्वम् । नाऽऽयः। दोपाभावसहकृतमानसामग्रीजन्यत्वमेव परतः प्रामाण्यमिति परतःप्रामाण्यवादिभिरुररीकरणात् । नापि द्वितीयः । दोषाभावसहकृतत्वेन सामग्यां सहकृतत्वे सिद्धेऽनन्यथासिद्धान्वयव्यतिरेकसिद्धतया दोषाभावस्य कारणताया वज्रलेपायमानत्वात् । अभावः कारणमेव न भवतीति चेत्तदा वक्तव्यमभावस्य कार्यत्वमस्ति न वा । यदि नास्ति तदा पटमध्वं लानुपपत्या पटस्य नित्यताप्रसङ्गः । अथास्ति किमपराद्धं कारणत्वेनेति सेयमुभयतःपाशा रज्जुः। तदुदितमुदयनेन- भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥ (न्या०कु०१।१०) इति । तथाच प्रयोगः-विमतं प्रमाण्यं ज्ञानहेत्वतिरिक्तहेत्वधीनं कार्यत्वे सति तद्विशेपाश्रितत्वादप्रामाण्यवेत् । प्रामाण्यं परतो ज्ञायतेऽनभ्यासदशायां सांशयिकत्वादप्रामाण्यवत् । तस्मादुत्पत्तौ ज्ञप्तौ च परतस्त्वे प्रमाणसंभवात्स्वतः सिद्धं भामाण्यमित्येतत्पूतिकूष्माण्डायत इति चेत्तदेतदाकाशमुष्टिहननायते । विज्ञानसामग्रीजन्यत्वे सति । तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वतस्त्वमिति निरुक्तिसंभवात् । अस्ति चात्रानुमानम् । विमता प्रमा विज्ञानसामग्रीजन्यत्वे सति तदतिरिकजन्या न भवति अप्रमात्वानधिकरणत्वात् । घटादिप्रमावत् । न चौद. यनमनुमानं परतस्त्वसाधकमिति शङ्कनीयम् । प्रमा दोषव्यतिरिक्तज्ञानहेत्वतिरिक्तजन्या न भवति ज्ञानत्वादप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात् ज्ञान साम
* घ. पु. टि.- अपरथा विशेषसामग्न्यनङ्गीकारे । + घ. पु. टि.- तस्य विशेषविज्ञानस्य । घ. पु. टि.-सामान्यसामग्यतिरिक्तविशेषसामग्रीजन्याश्रितत्वं परतस्त्वम् । .. इत आरभ्य सति इत्यन्तो प्रन्थः व. पुस्तके नास्ति ।
१ क. सभेत् । ख. सञ्जत। घ.-च. °सजेत् । २ क. ख. ग. घ. माण्यवि । ३ क. ख. श्रितोति' । घ. श्रित इति व्या । ४ ख. पद्यते। प°। ५ ग. तसा । च. तसामप्रथाभावज° । ६ . ग.न्यत्वं ज्ञा। ७क. ख. ग. °नमात्रसा। ८ क. ङ.-च. किं दो। ९ ख.-च. भावस। १० ख. 'वे सि । ११ ख. ग. मग्या दोषाभावस । घ. मग्या दोषाभावासहकृतत्वासिद्धेः । भ। १२ क. द्धेऽन्य । १३ ग. °वकर । १४ क. ख. ग. °णतया । १५ च. °त् । अथ, । १६ घ. °दा घट। १७ घ. °नुत्पत्त्या । १८ ख. त्या घट। १९ घ. दयेन । २० क.-ग ङ. च. 'मता प्रमा ज्ञा । २१ क. ग.-च. 'त्वादप्रमावत्प्र । २२ ख. ग. घ. वदप्रा । २३ घ. स्त्वे प्रामाण्यसं° । २४ घ. ण्डायितामति । २५ ख. °ति प्र।
१४