________________
१०४
सर्वदर्शनसंग्रहे-- शब्द इति व्यवहाराचरणे कारणं प्रत्यक्षं शब्दानित्यत्वे प्रमाणयति स्म । सोऽपि विरुद्धधर्मसंसर्गस्यौपाधिकत्वोपपादनन्यायेन दत्तरक्तबलिवेतालसमः । यो हि नित्यत्वे सर्वदोपलब्ध्यनुपलब्धिप्रसङ्गो न्यायभूषणकारोक्तः सोऽपि ध्वनिसंस्कृतस्योपलम्भाभ्युपगमात्प्रतिक्षिप्तः । यत्तुं युगपदिन्द्रियसंबन्धित्वेन प्रतिनियतसंस्कारकसंस्कार्यत्वाभावानुमानं तदात्मन्यनैकान्तिमित्यलमतिकलहेन । ततश्च वेदस्यापौरुषेयतया निरस्तसमस्तशङ्काकलङ्कगफूरत्वेन स्वतःसिद्धं धर्मे प्रामाण्यामिति सुस्थितम् । स्यादेतत् ।
प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः। .. नैयायिकास्ते पर: सौगताश्चरमं स्वतः ॥ प्रथमं परतः पाहुः प्रामाण्यं वेदवादिनः ।
प्रमाणत्वं स्वतः माहुः परतश्चाप्रमाणताम् ।। इति षादिविवाददर्शनात्कथंकारं स्वतःसिद्धं धर्म प्रामाण्यमिति सिद्धवत्कृत्य स्वी क्रियते ।
किंच किमिदं स्वतः प्रामाण्यं नाम । किं स्वत एव प्रामाण्यस्य जन्म । आहोस्वित्स्वाश्रयज्ञानजन्यत्वम् । किमुत स्वाश्रयज्ञानसामग्रीजन्यत्वम् । उताहो ज्ञानसामग्रीजन्यज्ञानविशेषाश्रितत्वम् । किंवा ज्ञानसामान्यसामग्रीमात्रजन्यज्ञानविशेषाश्रितत्वम् । तत्राऽऽद्यः सावधः । कार्यकारणभावस्य भेदसमानाधिकरणत्वेनैकस्मिन्नसंभवात् । नापि द्वितीयः । गुणस्य सतो ज्ञानस्य प्रामाण्यं प्रति समवायिकारणतया द्रव्यत्वापातात् । नापि तृतीयः। प्रामाण्यस्योपाधित्वे जातित्वे वा जन्मायोगात् । स्मृतित्वानधिकरणस्य ज्ञानस्य बाधा. त्यन्ताभावः प्रामाण्योपाधिः । न च तस्योत्पत्तिसंभवः । अत्यन्ताभावस्य नित्यत्वाभ्युपगमात् । अत एव न जातेरपि जनियुज्यते । नापि चतुर्थः । ज्ञानविशेषो ह्यपी । विशेषसामय्यां च सामान्यसामयनुपविशति शिशपासाम
१. ग. हारवारणे का । ख. 'हारका । घ. हारः का । २५. 'त्यक्षश। ३ च. "लिरेव भेतालः । ४ क. ख. वेतालमयोऽपि नि । ग. °वेतालसमयो हि । घ. 'वेतालमय एतेनापि नि । ५ घ. °सङ्गति न्या । ६ घ. "रोक्तपक्षः सो । ७ घ. निकृतत्वोप । ८ ग. 'तु यदि । ९ ख. घ. रसं । १० च. कमसति कलकले। त° । घ. °कमित्यलमतिकलकलेन । ततो वे । ११ ख. स्तश। १२ ङ. 'वत्वस्य । १३ ख. 'धिकत्वे । १४ ग.घ. भधी । अ । १५ घ. शेषे हि प्रामाण्यम् । प्रामाण्यवि । १६ क. ख. माणवि।