________________
जैमिनिदर्शनम् । उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् । . .
स सर्वव्यवहारेषु संशयात्मा विनश्यति ।। इति । नन्विदं प्रत्यभिज्ञानं गत्वादिजातिविषयं ने गादिव्यक्तिविषयम् । तासांप्रतिपुरुषं भेदोपलम्भात् । अन्यथा सोमशर्माऽधीत इति विभागो न स्यादिति चेत्तदपि शोभा न बिभर्ति। गादिव्यक्तिभेदे प्रमाणाभावेन गत्वादिजातिविषयकल्पनाया प्रमाणाभावात् । यथों गोत्वमजानत एकमेव भिन्नदेशपरिमाणसंस्थानव्यक्त्गुपधानवशाद्भिन्नदेशमिवॉल्पमिव महादिव दीर्घमिव वामनमिव प्रथते तथा गव्यक्तिमजानत एकाऽपि व्यञ्जक भेदात्तत्तद्धर्मानुबन्धिनी प्रतिभासते । एतेन विरुद्धधर्माध्यासाझेदसिद्धिरिति अत्युक्तम् । तत्र किं स्वाभाविको विरुद्धधर्माध्यासो भेदसाधकत्वेनाभिमतः प्रातीतिको वा । प्रथमेऽसिद्धिः। अपरथा स्वाभाविकभेदाभ्युपगमे दश गकारादचारयच्चैत्र इति प्रतिपत्तिः स्यान्न तु दशकृत्वो गकार इति । द्वितीये तु न स्वाभाविकभेदसिद्धिः । न हि परोपाधिभेदेन स्वाभाविकमक्यं विहन्यते । = मा भन्नभसोऽपि कुम्भाधुपाधिभेदात्स्वाभाविको भेदैः । तत्र व्यावृत्तव्यवहारो नादनिदानः । तदुक्तमाचार्य:
- प्रयोजनं तु यज्जातेस्तद्वर्णादेव * लप्स्यते ।
व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीवृथा ।। इति । । तथा च
मत्यभिज्ञा यदा शब्दे जागर्ति निरवग्रहा।
अनित्यत्वानुमानानि सैव सर्वाणि बाधते ॥ एतेनेदमपास्तं यदवादि वागीश्वरेण मानमनोहरे-अनित्यः शब्द इन्द्रियग्राह्यविशेषगुणत्वाचक्षुरूपवदिति । शब्दद्रव्यत्ववादिनं प्रत्यसिद्धः । ध्वन्यंशे सिद्धसाधनत्वाच्च । अश्रावणवोपाधिबाधितत्वाच्च । उदयनस्तु आश्रयाप्रत्यक्षत्वेऽप्यभावस्य प्रत्यक्षता महता प्रबन्धने प्रतिपादयभित्तः कोलाहल उत्पन्नः
= इत आरभ्य यज्जातेरित्यन्तो ग्रन्थो घ. पुस्तके न विद्यते। * घ. पु. टि.--ततः स्वाभाविकमैक्यं वर्णादेव।
१ ग. न गोदि । २ घ. या गादिव्यक्तिविषयता संभवति । तासां प्रतिपुरुषं भेदे प्र। ३ क. था गोश्रत्वम । ङ.-च. °था गत्व । ४ घ. रिणामसं° । ५ च.-- वाकल्प । ६ क. ख. ग. "क्तिराजा । ७ च. प्रयुक्तम् । ८ ङ. च. °दसमावि । ९ घ. °तः प्रती । १० ग. मेऽतिद्धः । अं। ११ ग. °नुच्चार । १२ क. ग. विको में। ख. विकी में° . १३ क. ख. ग. ते प्र । १४ च. 'दः । तेन तत्र व्यावृत्तनिनादो ना। १५ घ. ते । ताराद्यभिव्यक्तिस्तु ना। १६ क. ग.-च. दिनां प्रत्यक्षसि । १७ घ. °नां शब्दे विशेषगुणत्वासिद्धः । प्रत्यक्षसिद्धध्व ।