________________
सर्पदर्शनसंग्रहेमिति चेत्तदतिफल्गु । ठूनपुनर्जातकेशंदलितकुन्दादाविव प्रत्यभिज्ञायाः सामान्य विषयत्वेन बाधकत्वाभावात् । नन्वशरीरस्य परमेश्वरस्य तास्वादिस्थानाभावेन वर्णोधारणासंभवात्कथं तत्पणीतत्वं वेदस्य स्यादिति चेन्न तद्भद्रम् । स्वभावतोऽभरीरस्यापि तस्य भक्तानुग्रहार्थं लीलाविग्रहग्रहणसंभवात् । तस्मादिस्यापौरुपेयर्ववाचोयुक्तिर्न युक्तेति चेत्तत्र समाधानमभिधीयते । किमिदं पौरुषेयस्वं सिषाधयिषितम् । पुरुषादुत्पन्नत्वौत्रं यथाऽस्मदादिभिरहरहरुच्चार्यमाणस्य बंदस्य । प्रमाणान्तरेणार्थमुपलभ्य तत्प्रकाशनाय रचितत्वं वा यथाऽस्मदादिभिरेव निबध्यमानस्य प्रबन्धस्य । प्रथमे न विप्रतिपत्तिः । चरमे किमनुमानबलात्तत्साधनमागमबलाद्वा । नाऽऽद्यः । मालतीमाधवादिवाक्येषु सव्यभिचारस्वात् । अथ प्रमाणत्वे सतीति विशिष्यत इति चेत्तदपि न विपधितो मनसि वैशयमापद्यते । प्रमाणान्तरागोचरार्थपतिपादकं हि वाक्यं वेदवाक्यम् । तत्प्रमाणान्तरगोचरार्थप्रतिपादकमिति साध्यमाने मम माता वन्ध्येति
व्याघातापातात् । ... . किंच परमेश्वरस्य लीलाविग्रहपरिग्रहाभ्युपगमेऽप्यतीन्द्रियार्थदर्शनं न संजाघटीति । देशकालस्वभावविप्रकृष्टार्थग्रहणोपायाभावात् । न च तच्चक्षुरादिकमेवं तादृक्प्रतीतिजननक्षममिति मन्तव्यम् । दृष्टानुसारेणैव कल्पनाया आश्रयणीयत्वात् । तदुक्तं गुरुभिः सर्वज्ञनिराकरणवेलायाम्
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् ।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ।। इति । अत एव नाऽऽगमबलात्तत्साधनम् । यथा-तेन प्रोक्तमिति ( पा० सू० ४ । ३ १०१) पाणिन्यनुशासने जाग्रत्यपि काठककालापतैत्तिरीयमित्यादिसमाख्याऽ. ध्ययनसंप्रदायप्रवर्तकविषयत्वेनोपपद्यते । तद्वदत्रापि संप्रदायपवर्तकविषयत्वेनाप्युपपद्यते ।
न चानुमानबलाच्छब्दस्यानित्यत्वसिद्धिः। प्रत्यभिज्ञाविरोधात् । न चासत्ययकत्वे सामान्यनिबन्धनं तदिति सांप्रतम् । सामान्यनिबन्धनत्वमस्य बलब द्वाधकोपनिपातादास्थीयते कचिद्वयभिचारदर्शनाद्वा । तत्र कचिद्वयभिचारदर्शने तदुत्प्रेक्षायामुक्तं स्वतःप्रामाण्यवादिभिः- ... । १ घ. °ल्गु पु । २ च. शकालिकाण्डाद्वावि । ३ च. न त्वश° । ४ घ. 'हसं° । ५ ग. 'यत्वं सि । ६ घ. "त्ववचो । ७ क. ख. घ. चेदत्र। ८ घ. मात्रम् । अथवाऽस्म । ९ ग. 'काशाय । १० ख.ग. घ. 'शिष्ट इ । ११ क. ख. घ. वैषम्य । १२ घ. हि वे। १३ घ. दृग्ज्ञानक्ष। १४ । क. ख. °तिज्ञानक्ष । १५ क. °व्यम् । न्यायात् । दृ । १६ च. °क्तं भट्टाचार्यैः । स ।