________________
जैमिनिदर्शनम् । घोषः । दृष्टान्तदाष्टन्तिकयौपम्यसंभवात् । विषभोजनवाक्यस्याऽऽतमणीतस्वेन मुख्यार्थपरिग्रहे षाधः स्यादिति विवक्षा नाऽऽधीयते । अपौरुषेये तु वैदे प्रतीयमानोऽर्थः कुतो न विवक्ष्यते । विवक्षिते घ वेदार्ये यत्र यत्र पुरुषस्य संदेहः स सर्वोऽपि विचारशास्त्रस्य विषयो भविष्यति । तनिर्णयच प्रयोजनम् । तस्मादध्यापनविधिप्रयुक्तेनाध्ययनेनावगम्यमानस्यार्थस्य विचाराईत्वादिचार शास्त्रस्य वैधत्वेन विचारशास्त्रमारम्भणीयमिति राद्धान्तसंग्रहः।।
स्यादेतत् । वेदस्य कथमपौरुषेयत्वमभिधीयते । तत्प्रतिपादकप्रमाणाभावात् । अथ मन्येथा अपौरुषेया वेदाः संप्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृः कत्वादात्मवदिति । तदेतन्मन्दम् । विशेषणासिद्धः । पौरुषेयवेदवादिभिः प्रलये संप्रदायविच्छेदस्य कक्षीकरणात् । किंच किमिदमस्मर्यमाणकर्तृकत्वं नामा: भीयमागकर्तकत्वमस्मरणगोचरकर्तकत्वं वा । न प्रथमः कल्पः । परमेश्वरस्य कर्तुः प्रमितेरभ्युपगमात् । न द्वितीयः । विकल्पासहत्वात् । तथाहि-किमेकेनास्मरणमभिप्रेयते सर्वैर्वा । नाऽऽद्यः । यो धर्मशीलो जितमानरोष इत्यादिषु मुक्तकोक्तिषु व्यभिचारात् । न द्वितीयः । सर्वास्मरणस्यासर्वज्ञदुर्बानत्वात् । पौरुषेयत्वे प्रमाणसंभवाच । वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्कालिदासादिवाक्यवत् । वेदवाक्याँन्याप्तप्रणीतानि प्रमाणत्वे सति वाक्यत्वान्मन्वादिवा. क्यवदिति । ननु
वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥ . इत्यनुमानं प्रतिसाधनं प्रगल्भत इति चेत्तदपि न प्रमाणकोटि प्रवेष्टुमीष्टे ।
भारताध्ययनं सर्व गुर्वध्ययनपूर्वकम् ।
भारताध्ययनत्वेन सांप्रताध्ययनं यथा ॥ इत्याभाससमानयोगक्षेमत्वात् । ननु तत्र व्यासः कर्तेति स्मयते ।
... को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् । इत्यादाविति चेत्तदसारम् । 'ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माय. जुस्तस्मादजायत ' (ते. आ० ३ । १२) इति पुरुषसूक्ते वेदस्य सर्तकतामतिपादनात् । किंचानित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिब ोन्द्रियग्राह्यत्वाघटवत् । नन्विदमनुमानं स एवायं गकार इति प्रत्यभिज्ञाप्रमाणप्रतिहत
१ ख. "नस्याप्यप्र। २ क.-T. ङ. च. कथं । ३ घ. क्षीकारात् । ४ क.-ड. प्रतीय। ५ घ. 'त् । नापि द्वि । ६ ख. 'ल्पानुपपत्तेः । त° । ७ च. 'क्यान्यप्र । ८ च. नवाच्यत्वाद । ९ च.' 'प्रतिप्रग । १० घ. त्यादिवचनेनेति ।...................... ...