________________
१०० सर्वदर्शनसंग्रहेइत्यादिना पाणिन्यनुशासनेनाऽऽचार्य के गम्यमाने नयतेर्धातोरात्मनेपदस्य विधानात् । उपनयने यो नियोज्यः स एवाध्यापनेऽपि । तयोरेकप्रयोजनत्वात् । अत एवोक्तं मनुनों मुनिना
उपनीय तु यः शिष्यं वेदमध्यापयेदिङ्गः । साङ्गं च सरहस्यं च तमाचार्य प्रचक्षते ।।
(म० स्मृ० २ । १४० ) इति । ततश्चाऽऽचार्यकर्तृकमध्यापनं माणवककतृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविधिप्रयुक्त्यैवाध्ययनानुष्ठानं सेत्स्यति । प्रयोज्यव्यापारमन्तरेण प्रयोजकन्यापारस्यानिर्वाहात् । त_ध्येतव्य (तै० आ०२।१५) इत्यस्य विधित्वं में सिध्यतीति चेन्मा सैत्सीत्का नो हानिः । पृथगध्ययनविधेरभ्युपगमे प्रयोजनाभावात् । विधिवाक्यस्य नित्यानुवादत्वेनाप्युपपत्तेः । तस्मादध्ययनविधि' मुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षी प्रकारान्तरेण प्रदर्शनीयौ।
विचारशास्त्रमवैधत्वेनानारब्धव्यमिति पूर्वपक्षो वैधत्वेनाऽऽरब्धव्यमिति राद्धान्तः । तत्र वैधत्वं वदता वदितव्यं किमध्यापनविधिर्माणवकस्यार्थावबोधमपि प्रयुङ्क्ते किंवा पाठमात्रम् । नाऽऽद्यः । विनाऽप्यर्थावबोधेनाध्यापनसिद्धः। न द्वितीयः । पाठमात्रे विचारस्य विषयप्रयोजनयोरसंभवात् । आपाततः प्रतिभातः संदिग्धोऽर्थो विचारशास्त्रस्य विषयो भवति । तथा सति यत्रीर्थावग: तिरेव नास्ति तत्र संदेहस्य का कथा । विचारफलस्य निर्णयस्य प्रत्याशा दूरत एव । तथा च यदसंदिग्धमप्रयोजनं न च तत्प्रेक्षावत्मतिपित्सागोचरैः । समनस्केन्द्रियसंनिकृष्टः स्पष्टालोकमध्यमध्यासीनो घट इति न्यायेन विषयप्रयोजनयोरसंभवेन विचारशास्त्रमनारभ्यमिति पूर्वः पक्षः।।
अध्यापनविधिनाऽर्थावबोधो मा प्रयोजि । तथाऽपि साङ्गग्वेदाध्यायिनो गृहीतपदपदार्थसंगतिकस्य पुरुषस्य पौरुषेयेष्विव प्रबन्धेष्वान्नायेऽप्यर्थावबोधः प्रामोत्येव । ननु यथा विषं भुक्ष्वेत्यत्र प्रतीयमानोऽप्यों न विवक्ष्यते माऽस्य गृहे भुक्था इति भोजनप्रतिषेधस्य मातृवाक्यतात्पर्यविषयत्वात् । तथाऽऽम्नायार्थस्याविवक्षायां विषयावभावदोषः प्राचीनः प्रादुःध्यादिति चेन्मेवं
१ . °ना । उ॰ । २ च. जः । सकल्पं स । ३ घ. युक्तैवा । ४ च. न प्रसि । ५ क-ह. धित्वस्य । ६ च. पूर्वपक्षसिद्धान्तौ । ७ च. धनम । ८ क. ग. घ. प्रयुञ्जते । ख. च. प्रयुज्यन्ते । ९ च.नाध्ययन। १० क.-ङ. स्त्रवि । ११ च. त्राव । १२ क.-ग. .च. 'दिग्धः । १३ घ. ङ. च. °रः । यथा स । १४ ख. अध्ययन ।