________________
जैमिनिदर्शनम् । स्वाध्यायः । स्वाध्यायशब्दार्थस्य वर्णराशेनित्यत्वेन विभुत्वेन चोत्पत्त्यादीनां च. तुर्णा क्रियाफलानामसंभवात् । तस्मात्सामर्थ्यप्राप्तोऽवबोधो भाव्यत्वेनावतिष्ठते । अर्थी समर्थों विद्वानधिक्रियत इति न्यायेन दर्शपूर्णमासादिावधयः स्वविषयावघोधमपेक्षमाणाः स्वार्थबोधे स्वाध्यायं विनियुञ्जते । अध्ययनविधिश्च लिखितपाठादिव्यावृत्त्याऽध्ययनसंस्कृतत्वं स्वाध्यायस्यावगमयति । तथा च यथा दर्शपूर्णमासादिजन्यं परमापूर्वमवघातादिजन्यस्यावान्तरापूर्वस्य कल्पकं तथा समस्तक्रतुजन्यमपूर्वजातं क्रतुज्ञानसाधनाध्ययननियमजन्यमपूर्वं कल्पयिष्यति । नियमादृष्टानिष्टौ विधिश्रणवैफल्यमापयेत । न च विश्वजिन्न्यायेन फलकल्पनाऽवकल्प्यते । अर्थावबोधे दृष्टे फले सति फलान्तरकल्पनाया अयोगात् । तदुक्तम्
लभ्यमाने फले दृष्टे नादृष्टफलकल्पना ।
विधेस्तु नियमार्थत्वान्नाऽऽनर्थक्यं भविष्यति ॥ इति । ननु वेदमात्राध्यायिनोऽर्थावबोधानुदयेऽपि साङ्गवेदाध्यायिनः पुरुषस्यार्थावबोघसंभवाद्विचारशास्त्रस्य वैफल्यमिति चेत्तदसमञ्जसम् । बोधमात्रसंभवेऽपि निर्णयस्य विचाराधीनत्वात् । तद्यथा- अक्ताः शर्करा उपदधाति ( तै० ब्रा० ३-१२-५) इत्यत्र घृतेनैव न तैलादिनत्ययं निर्णयो व्याकरणेन निगमेन निरुक्तेन वा न लभ्यते । विचारशास्त्रेण तु तेजो वै घृतमिति वाक्यशेषवशादर्थनिर्णयो लभ्यते । तस्माद्विचारशास्त्रस्य वैधत्वं सिद्धम् । न च वेदमधीत्य स्नायादिति शास्त्रं गुरुकुलनिवृत्तिपरं व्यवधानप्रतिबन्धकं बाध्येतेति मन्तव्यम् । स्नात्वा भुङ्क्त इतिवत्पूर्वापरीभावसमानकर्तृकत्वमात्रप्रतिपत्त्याऽध्ययनसमावर्तनयो रन्तर्याप्रतिपत्तेः। तस्माद्विधिसामर्थ्यादेवाधिकरणसहस्रात्मकं पूर्वमीमांसाशास्त्रमारम्भणीयम् । इदं चाधिकरणं शास्त्रेणोपोद्घातत्वेन संबध्यते । तदाह
चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं प्रचक्षते ॥ इति । • इदमेवाधिकरणं गुरुमतमनुसृत्योपन्यस्यते-अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयीतेत्यत्राध्यापनं नियोगविषयः प्रतिभासते । नियोगश्च नियोज्यमपेक्षते । कश्चात्र नियोज्य इति चेदाचार्यककाम एव । संमानन (पा० सू० १३३६) ...१ क.-ड. विष । २ ख. पयस्वविषया । घ. °षयः स्वविषया । ३ घ. 'माणाः स्वाववो । ङ-च. माणास्तत्त्वबो । ४ ख. च द’। ५ क. ख. वणं वै०१६ घ.-. °स्याव' । ७ क.-ग. छ. च. . 'त्यर्थनि । ८ ङ. °न्तर्यप्र । ९ ख. पनविनि। . . .