________________
सर्वदर्शनसंग्रहे-- यनमर्थावबोधहतुरध्ययनत्वाद्भारताध्ययनवदित्यनुमानेन विध्यनपेक्षतया प्राप्तत्वात । अस्तु तर्हि द्वितीयो यथा नख विदलनादिना तण्डुलनिष्पत्तिसंभवात्पाक्षिकोऽवघातोऽवश्यं कर्तव्य इति विधिना नियम्यते । तथा लिखितपाठे. नार्थज्ञानसंभवा-पाक्षिकमध्ययनं विधिना नियम्यत इति चेन्नैतच्चतुरस्रम् । दृष्टान्तदान्तिकयोधर्म्यसंभवात् । अवघातनिष्पन्नैरेव तण्डुलैः पिष्टपुरोडाशादिकरणेऽवान्तरापूर्वद्वारा दर्शपूर्णमासौ परमापूर्वमुत्पादयतो नापरथा। अतोऽपूर्वमवघातस्य नियमहेतुः । प्रकृते लिखितपाठजन्येनाध्य यनजन्येन वाऽर्थावबोधेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुनास्त्येव । तस्मादर्थावबोधहेतुविचारशास्त्रस्य वैधत्वं नास्तीति । तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्स्वर्गफलकोऽक्षरग्रहणमात्रविपिरिति भवान्परितुष्यत । विश्वजिन्न्यायेनाश्रुतस्यापि स्वगस्य कल्पयितुं शक्यत्वात् । यथा स स्वर्गः सर्वान्प्रत्यविशिष्टत्वात् ( जै.. सू. ४।३।१३ )इति विश्वजित्यश्रुतमप्यधिकारिणं संपादयता तद्विशेषणं स्वर्ग: फलं युक्त्या निरणायि तद्वदध्ययनेऽप्यस्तु । तदुक्तम्-: . ___ विनाऽपि विधिना दृष्टलाभान्न हि तदर्थता । ।
कल्प्यस्तु विविसामर्थ्यात्स्वर्गो विश्वजिदादिवत् ।। इति । एवं च सति वेदमधीत्य स्नायादिति स्मृतिरनुगृहीता भवति । अत्र हि वेदा. ध्ययनसमावर्तनयोरव्यवधानमवगम्यते । तावके मते त्वधीतेऽपि वेदे धर्मविचाराय गुरुकुले वस्तव्यम् । तथा सत्यव्यवधानं बांध्येत । तस्माद्विचारशा. स्त्रस्य वैधत्वाभावात्पाठमात्रेण स्वर्गसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रमनारम्भणीयमिति पूर्वपक्षसंक्षेपः।
सिद्धान्तस्त्वन्यतः प्राप्तत्वादमाप्तविधित्वं माऽस्तु । नियमविधित्वपक्षस्तु वज्रहस्तेनापि नापहस्तयितुं पार्यते । तथाहि-स्वाध्यायोऽध्येतव्य इति तव्यप्रत्ययः प्रेरणापरपर्यायां पुरुषप्रवृत्तिरूपार्थभावनामाव्यामभिवाभावना* प्रत्याययति । सा ह्यर्थमायनी भाव्यमाकाङ्क्षति । न तावत्समानपदोपात्तमध्ययनं भाव्यत्वेन परिरमते । अध्ययन शब्दार्थस्य स्वाधीनोचारणक्षमत्वस्य वाङ्मनसव्यापारस्य क्लेशार्थकस्य नाव्यत्वासंभवात् । नापि समानवाक्योपात्तः
* घ. पु. टि.-शाब्दी भावनाम् ।
१ व. 'हेत्वध्य । २ क.-ङ. वात् । । ३ ख. रमपू। ४ ख. नास्त्येव । ५ क. ख. ग. णवि । ६ ग. बाध्यते । ७ क. °वनां साऽपि भा। ग. वना साऽपि भा । ८ घ. नाभा । ९ क.. ङ. च. यनभाव्यं प० । १० स. ग. च. न भाव्यभावं प०। ११ ख. ग. भाव्यभावास। घः भाव्यास ।