________________
जैमिनिदर्शनम् ।
अथ जैमिनिदर्शनम् ॥ १२ ॥
ननु धर्मानुष्ठानवशादभिमतधर्मसिद्धिरिति जेगीयते भवता । तत्र धर्मः किंलक्षणकः किंममाणक इति चेदुच्यते । श्रूयतामवधानेन । अस्य प्रश्नस्य प्रतिवचनं प्राच्यां मीमांसायां प्रादर्शि जैमिनिना मुनिना । सा हि मीमांसा द्वादशलक्षणी। तत्र प्रथमेऽध्याये विध्यर्थवादमन्त्रस्मृतिनामधेयार्थकस्य शब्दराशेः प्रामाण्यम् । द्वितीये कर्मभेदोपोद्घातप्रमाणापवादप्रयोगभेदरूपोऽर्थः । तृतीये श्रुतिलिङ्गवाक्यादिविरोधप्रतिपत्तिकर्मानारभ्याधीतबहुप्रधानोपकारकायाजादियाजमानचिन्तनम् । चतुर्थे प्रधानप्रयोजकत्वाप्रधानप्रयोजकत्वजुहूंपर्णतादिफलराजसूयगतजघन्याङ्गाक्षयूतादिचिन्ता । पञ्चमे श्रुत्यादिक्रमतद्विशेषवृद्ध्यवर्धनप्राबल्यदौर्बल्यचिन्ता । षष्ठेऽधिकारितद्धर्मद्रव्यप्रतिनिध्यर्थलोपनप्रायश्चित्त सत्रदेयवह्निविचारः । सप्तमे प्रत्यक्षवचनातिदेशशेषनामलिङ्गातिदेशविचारः । अष्टमे स्पष्टास्पष्टप्रबललिङ्गातिदेशापवादविचारः । नवम ऊहविचारारम्भसामोहमरोहतत्प्रसङ्गमगतविचारः । दशने बाधहेतुद्वारलोपविस्तारबाधकारणकार्थकत्वसमुच्चयग्रहादिसामप्रकीर्णनबर्थविचारः । एकादशे तन्त्रोपोद्घाततन्त्रावापतन्त्रप्रपञ्चनीवापप्रपश्चनचिन्तनानि । द्वादशे प्रसङ्गन्तन्त्रिनिर्णयसमुच्चयविकल्पवि. चारः। . तत्राथातो धर्मजिज्ञासेति ( जै० मू० १।१।१) प्रथममधिकरणं पूर्वमीमांसारम्भोपपादनपरम् । अधिकरणं च पश्चावयवमाचक्षते परीक्षकाः । ते च पश्चावयवा विषयसंशयपूर्वपक्षसिद्धान्तसंगतिरूपाः ।
तत्राऽऽचार्यमतानुसारेणाधिकरणं निरूप्यते । स्वाध्यायोऽध्येतव्य इत्येतद्वाक्यं विषयः । चोदनालक्षणोऽर्थो धर्मः ( जै० सू० १।१।२ ) इत्यारभ्यान्याहार्ये च दर्शनात् ( जै० सू० १२।४।४० ) इत्येतदन्तं जेमिनीयं धर्मशास्त्रमनारभ्यमारभ्यं वेति संदेहः । अध्ययनविधेरदृष्टार्थत्वदृष्टार्थत्वाभ्याम् । तत्रानारभ्यमिति पूर्वः पक्षः । अध्ययनविधेरर्थावबोधलक्षणदृष्टफलकत्वानुपपत्तेः । अर्थावबोधार्थमध्ययनविधिरिति वदन्वादी प्रष्टव्यः-किमत्यन्तमप्राप्तमध्ययनं विधीयते किंवा पाक्षिकमवघातवनियम्यत इति । न तावदाद्यः। विवादपदं वेदाध्य
ख. 'तसि । २ क. ग. तिमन्त्रना। ३ ख. °मानं चि । ४ च. 'हपूर्ण । ५ ख. ल्यचि । ६ क. ग.-च. 'त्यक्षाव । ७ ख. हत। ८ च. न्त्रोऽन्यत । ९ घ. नाम । १०. र्थह। ११ घ. वादास्पदं ।