________________
२८
सर्वदर्शनसंग्रहे
सोऽस्ति । समस्तेषु वस्तुष्वनैकान्तात्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्धत्वादित्यलम् ।
अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते । जीवाकाशधर्माधर्मपुद्गलास्तिकायभेदात् । एतेषु पञ्चसु तत्त्रेषु कालत्रयसंबन्धितयांऽस्तीतिस्थितिव्यपदेशः । अनेकप्रदेशत्वेन शरीरवत्कायव्यपदेशः । तत्र जीवा द्विविधाः संसारिणो मुक्तार्थं । भवाद्भवान्तरप्राप्तिमन्तः संसारिणः । ते च द्विविधाः समनस्का अमनस्काश्च । तत्र संज्ञिनः समनस्कः | शिक्षाक्रियालापग्रहण रूपा संज्ञा । तद्विधुरास्त्वमनस्काः । ते चामनस्का द्विविधाः । सस्थावरभेदात् । तत्र द्वीन्द्रियादयः शङ्खगण्डोलकप्रभृतयश्चतुर्विधा स्त्रसाः । पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । तत्र मार्गगतधूलिः पृथिवी । इष्टकादिः पृथिवीकायः । पृथिवी कायत्वेन येन गृहीता स पृथिवीकायिकः । पृथिवीं कायत्वेन यो ग्रहीष्यति स पृथिवीवः । एवमादिष्वपि भेदचतुष्टयं योज्यम् । तत्र पृथिव्यादि कार्यत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः । तेषामजीवत्वात् । ते च स्थावराः स्पर्शनै केन्द्रियः । भवान्तरप्राप्तिविधुरा मुक्ताः । धर्माधर्माकाशास्तिकायास् एकत्वशालिनो निष्क्रियाश्च द्रव्यस्यै देशान्तरप्राप्तितव: । तत्र धर्माधर्मौ प्रसिद्धौ । आलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये तयोः सर्वत्रावस्थितिः । गतिस्थित्युपग्रहो धर्माधर्मयो रुपकारः । अत एव धर्मास्तिकायः प्रवृत्त्यनुमेयः । अधर्मास्तिकायः स्थित्यनुमेयः । अन्यवस्तुप्रदेशमध्येऽन्यस्य वस्तुनः प्रवेशोऽवगाहः । तदाकाशकृत्यम् । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ( त० सू० ५ । २४ ) । ते च द्विविधा अणवः स्कन्धाश्च । भोक्तुमशक्या अणवः । द्व्यणुकादयः स्कन्धाः । तत्र द्वयणुकादिस्कन्धभेदादण्वादिरुत्पद्यते । अण्वादिसंघातद्व्यणुकादिरुत्पद्यते । कचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः ( त० सू० ५ | २६ ) । अत एव पूरयन्ति गलन्तीति पुद्गलाः । कालस्यानेक प्रदेशत्वाभावेनास्तिका यत्वाभावेऽपि द्रव्यत्वमस्ति । तल्लक्षणयोगात् । तदुक्तम् - गुणपर्यायवद्द्रव्यमिति (त० सू० ५ । ३८ ) ।
59
93
१ क. ग. – ङ. नेकरसात्म' । ख. 'नेकतात्म । २ घ. याsस्तिव्य । क. ग. ङ. या स्थि । ३ च. 'श्च । भावाद्भावा ं । ४ च. 'स्काः । भिक्षा' । ५ ६. रूपसं । ६ ङ. त्रयस्था' । च त्रस्तस्था । ७ च. स्रस्ताः । पृ॰ । ८ ङ. तेषां जी । ख तेषां जीवादयस्तेषां जी । च तेषामनेकत्वा' । ९ च. 'याश्च । भावा । १० ग. 'स्य प्रदे' । ११ ख. ङ. - च हेतुः । त । १२ ख. धर्माधर्मास्तिकायः स्थित्य - नुमेयः । अन्यधर्मास्तिकायः स्थित्यनुमेयः । १३ च ' शो विभागः । त । १४ ग. वकाशः । त° । १५ ख. °ते। क्व ै । १६ क. 'तात्तत्र द्वयणुकादिस्कन्धभेदादण्वादि । १७ ख. घ. पूयन्ति । १८ च. न्ति ग्रसन्ती ।