________________
आहेतदर्शनम् ।
- २७ . अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वे स्तः । तत्र बोधात्मको जीवः । अबोधात्मकस्त्वजीवः । तदुक्तं पद्मनन्दिना
चिदचिवे परे तत्त्वे विवेकस्तद्विवचनम् । उपादेयमुपादेयं हेयं हेयं च कुर्वतः ॥ हेयं हि कर्तरागादि तत्कार्यमविवेकिता ।
उपादेयं परं ज्योतिरुपयोगैकलक्ष गम् ॥ इति । सहजचिद्रूपपरिणति स्वीकुर्वाणे ज्ञानदर्शने उपयोगः । स परस्परप्रदेशानां प्रदेशबन्धात्कर्मणकीभूतस्याऽऽत्मनोऽन्यत्वप्रतिपत्तिकारणं भवति । सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिकक्ष यात्मकक्षायोपशमिकभावेन कर्मोदयवशात्कलुषान्याकारेण च परिणतजीवपर्यायविवक्षायां जीवस्वरूपं भवति । यदवोचद्वाचकाचार्य:-औपशमिकक्षायिकी भावौ मिश्रश्व जीवस्य स्वतत्त्वमौदयिकपारिणामिको चेति (त० सू०२।१)। * अनुदयप्राप्तिरूपे कर्मण उपशये सति जीवस्योत्पद्यमानो भाव औपशमिकः। यथा पैड कलुषतां कुर्वति कतकादिद्रव्यसंबन्धादध:पतिते जलस्य स्वच्छता । आईततत्त्वानुसंधानवशाद्रागादिपक्षालनेन निर्मलतापादकः क्षायिको भावः। कर्मणः क्षये सति जायमानो भावः क्षायिकः । यथा पङ्कात्पृथग्भूतस्य निर्मलस्य स्फटिकादिभाजनान्तगतस्य जलस्य स्वच्छता । यथा मोक्षः। उभयात्मा भावो मिश्रः। यथा जलस्याधस्वच्छता । कर्मोदये सति भवन्भाव औदयिकः । कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः । तदेतद्यथासंभवं भव्यस्याभव्यस्य वा जीवस्य स्वरूपामिति सूत्रार्थः । तदुक्तं स्वरूपसंबोधने
ज्ञानाद्भिन्नो में नाभिन्नो भिन्नाभिन्नः कथंचन ।
ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ इति । ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैव वास्तवत्वादुभयात्मकत्व. मयुक्तमिति चेत्तदयुक्तम्। बाधे प्रमाणाभावात् । अनुपलम्भो हि बाधकं प्रमाणम् । न ।
. * घ. पु. टि.-संसारप्राप्तिरूपे ।
१ ख. ग. घ. गः प० । २ क.ग. च. णं लक्षणं भ' । ३ ख. °ववि । ४ च. क्षाथिको । ५ ख. पङ्कलुषान्तां । ६ घ.ता। अनुदयप्राप्तिकर्मणोऽर्धक्ष। ७ ख. मणोपशमक्ष । ८ च. उत्पद्यमानो। ९ ख. घ. भावो मि। १० ङ. क्षयिकः। ११ च. °था कर्मणः क्षयोपशमे सति जायामनो भा। १२ ख. स्यार्थे स्व । १३ ख. हजश्वेतत्वादिपा । १४ क. ग. °न वाभि । ङ.-च. न चाभिन्नो । १५ ख. °म् । बोधप्र ।