________________
२६
सर्वदर्शनसंग्रहे--- अन्तर्गणिकभेदस्तु सविस्तरस्तत्रैवाऽऽगमेऽवगन्तव्यः ।
संसरणकर्मोच्छित्तावुद्यतस्य श्रद्दधानस्य ज्ञानवतः पापगमनकारणक्रियानि. वृत्तिः सम्यक्चारित्रम् । तदेतत्सप्रपञ्चमुक्तमर्हता
सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते । कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ अहिंसासूनृतास्ते यब्रह्मचर्यापरिग्रहाः । न यत्पमादयोगेन जीवितव्यपरोपणम् । चराणां स्थावराणां च तदहिंसाव्रतं मतम् ॥ । प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ।। अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ।। बाह्याः प्राणा नृणाम हरता तं हता हि ते ।। दिव्यौदरिककामानां कृतानुमतकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥ x सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः । यदसत्स्वापि जायेत मूर्छया चित्तविप्लवः ।। भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात ।
महाव्रतानि लोकस्य साधयन्त्यव्ययं पदम् ॥ इति । भावनापश्चकप्रपश्चनं च प्ररूपितम्
हास्यलोभभय क्रोधप्रत्याख्याननिरन्तरम् । .
आलोच्य भाषणेनापि भावयेत्सूनृतं व्रतम् ॥ इत्यादिना । एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकम् । यथा रसायनम्। तथा चात्र ज्ञानश्रद्धानाचरणानि संभूय फलं साधयन्ति न प्रत्येकम् ।
x घ. पु. टि.-सर्वभावविषयकवृद्धेस्त्यागः । मूर्छितं तम इत्यादी मूर्छाशब्दस्य वृद्ध्यर्थकत्वदर्शनात् ।
१च. संसारक । २ ग. सासत्यमस्ते । ३ घ. तव्याप। ४ च. र्थो हारितात हिता। ५* घ. रणातहिताहितैः। दि । ६ क. ग.--- सर्वाभा । ७ ख. "हः । सद। ८ च. °ञ्चनस्य निरू । ९ क. ख. घ.--टु. °नावर ।
* घ.पु.टि.-हरणार्तहिताहितैः सहितानां नृणां सतामेवमुत्तरत्रापि कायत इति तृतीयाबहुवचनार्थे तसिस्तत्सहितस्त्यागः । तथा च बाह्यादित्यागगता अष्टादश असुचर्या ब्रह्मचर्या ।