________________
आहेतदर्शनम् । भवत्वादमुष्याशेषार्थज्ञानस्य । न चान्योन्याश्रयादिदोषः । आगमसर्वज्ञपरम्प राया बीजाकुरवदनादित्वाङ्गीकारादित्यलम् ।।
रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमहत्प्रवचनसंग्रहपरे परमागमसारे प्ररूपितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति । विवृतं च योगदेवेन । येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानं सम्यग्दर्शनम् । तथा च तत्त्वार्थ: मूत्रम्-तत्त्वार्थ श्रद्धानं सम्यग्दर्शनमिति । अन्यदपि
रुचिर्जिनोक्ततत्त्वेषु सम्यक्श्रद्धानमुच्यते ।
जयते तनिसर्गेण गुरोरधिगमेन वा ॥ इति । परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः । व्याख्यानादिरूपपरोपदेशजनितं ज्ञान मधिगमः।
येन स्वभावेन जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्ज्ञानम् । यथोक्तम्
यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा।
योऽववोधस्तमत्राऽऽहुः सम्यग्ज्ञानं मनीषिणः ॥ इति । तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमन:पर्यायकेवलभेदेन । तदुक्तम्-मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानमिति । अस्याः -ज्ञानावरणक्षयोपशमे सतीन्द्रियम. नसी पुरस्कृत्य व्यापृतः सन्यथार्थं मनुते सा मतिः । ज्ञानावणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्रुतम् । सम्यग्दर्शनादिगुणजनितक्षयोपशमनिमित्तमवच्छिन्नविषयं ज्ञानमवधिः । ईन्तिरायज्ञानावरणक्षयोपशमे सति परमनो. गतस्थार्थस्य स्फुट परिच्छेदकं ज्ञानं मनःपर्यायः। तपःक्रियाविशेषान्यदर्थ सेवन्ते तपस्विनस्तानमन्यज्ञानासंस्पृष्टं केवलम् । तत्राऽऽद्यं परोक्षं प्रत्यक्षमन्यत् । तदुक्तम् -
विज्ञानं स्वपराभास प्रमाणं बाधवर्जितम् ।
प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।। इति । १ क.-ङ. श्रयणादि । २ घ. हद्वच । ३ ग. ग्रह पर ।४ क. ग. घ. °ण बीजाद्य । ५ ग. रीतभावनार । ६ ख. घ. °शपरत्वहि । ७ ख. त्वार्थसूत्राणां श्र। ८ क. ग. जानन्ते । ९ ग. च । १० ग. पेक्षात्म। ११ क. °न बीजाद। १२ ख. ग. पर्यय । १३ ग. पर्यय । १४ क. ख. ग. घ. °र्थः-मति । १५ ग. °रणीयो । १६ क. ख. ग. °तिः। श्रुतं ज्ञा। च. तिः। श्रुतज्ञा। १७ ग. °रणीयो । १८ क. घ.-ङ. °म् । अस । १९ ग. °त आवरणक्ष। २० ख. ग. °पर्ययः । २१ क. ग. °षाद्यद । २२ च.ज्ज्ञानं सं° । २३ क. त्राऽऽद्ये प° ।