________________
चार्वाकदर्शनम् । अङ्गनालिङ्गनाजन्यसुखमेव पुमर्थता। . .. कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते ॥ १ ॥ लोकसिद्धो भवेद्राजा परेशो नापरः स्मृतः। - .. देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते ॥२॥ अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः। .. चतुर्व्यः खलु भूतेभ्यश्चैतन्यमुपजायते ॥ ३॥ .. किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ।। अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः ॥ ४ ॥ देहः स्थौल्यादियोगाच्च स एवाऽऽत्मा न चापरः।
मम देहोऽयमित्युक्तिः संभवेदौपचारिकी ॥ ५ ॥ इति । स्यादेतत् । स्यादेष मनोरथो यद्यनुमानादेः प्रामाण्यं न स्यात् । अस्ति च प्रामाण्यम् । कथमन्यथा धूमोपलम्भानन्तरं धूमध्वजे प्रेक्षावता प्रवृत्तिरुपपद्येत । नधास्तीरे फलानि सन्तीति वचनश्रवणसमनन्तरं फलार्थिनां नदीतीरे प्रवृत्ति रिति । तदेतन्मनोराज्यविजृम्भणम् । व्याप्तिपक्षधर्मताशालि हि लिङ्ग गमकमभ्युपगनमनुमानप्रामाण्यवादिभिः । व्याप्तिश्चोभयविधोपाधिविधुरः संबन्धः । सच सत्तया चक्षुरादिवनाङ्गभावं भजते । किं तु ज्ञाततया । कः खलु ज्ञानो. पायो भवेत् । न तावत्प्रत्यक्षम् । तच्च बाह्यमान्तरं वाऽभिमतम्। न प्रथमः । तस्य संप्रयुक्तविषयज्ञानजनकत्वेन भवति प्रसरसंभवेऽपि भूतभविष्यतोस्तदसंभवेन सर्वोपसंहारवत्या व्याप्तदुर्ज्ञानत्वात् । न च व्याप्तिज्ञानं सामान्यगोचरमिति मन्तव्यम् । व्यक्त्योरविनाभावाभावप्रसङ्गात् । नापि चरमः । अन्तःकरणस्य बहिरिन्द्रियैतन्त्रत्वेन बाह्येऽर्थे स्वातन्त्र्येणं प्रवृत्त्यनुपपत्तेः । तदुक्तम्
चक्षुरायुक्तविषयं परतन्त्रं बहिर्मनः। (त० वि० २०) इति । नाप्यनुमानं व्याप्तिज्ञानोपायः । तत्र तत्राप्येवमित्यनवस्थादौःस्थ५प्रसङ्गात् । नापि शब्दस्तदुपार्थः । काणादमतानुसारेणानुमान एवान्तर्भावात् । अनन्तर्भावे वा वृद्धव्यवहाररूपलिङ्गावगतिसापेक्षतया प्रागुक्तदूषणलङ्घनाजघालत्वात् । धूमधूमध्वजयोरविनाभावोऽस्तीति वचनमात्रे मन्वादिवद्विश्वासाभा
१ च. तदे । २ च. हि विभागं गमकमगीकृत । ३ क. च. तत्र । ४ क. भाव । ५ च. °यपरत । ६ च. ण प्रवृत्तेरप्रवृत्तेः । त° । ७ च. पायम् । ८ च. यः कणा । ९ च. नसंगतिम।