________________
सर्वदर्शनसंग्रहे—
२
श्यति न प्रेत्य संज्ञाऽस्ति ( वृ० २ । ४ । १२ ) इति । तचैतन्यविशिष्टंदेह एवाऽऽत्मा । देहातिरिक्त आत्मनि प्रमाणाभावात् । प्रत्यक्षैकप्रमाणवादितया - नुमानादेरनङ्गीकारेण प्रामाण्याभावात् । अङ्गनाद्यालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । न चास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यम् । अत्रर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव भोक्तव्यत्वात् । तद्यथा मत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते स यावदादेयं तावदादाय निव र्तते । यथा वा धान्यार्थी सपलालानि धान्यान्याहरति स यावदादेयं तावदादाय निवर्तते । तस्माद्दुःखभयान्नानुकूलवेदनीयं सुखं त्यक्तमुचिरम् । न हि मृगाः सन्तीति शाल यो नोप्यन्ते । न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । यदि कश्विद्भीरुर्दृष्टं सुखं त्यजेत्तर्हि स पशुवन्मूखों भवेत् । तदुक्तम्
त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्खत्रिचारणैषा । व्रीही जिहासति सितोत्तमतण्डुलाढयान् को नाम भोस्तुपकणोपहितान्हितार्थी ॥ इति ।
*
ननु पारलौकिक सुखाभावे बहुवित्तव्ययशरीरायाससाध्येऽग्निहोत्रादौ विद्या वृद्धाः कथं वर्तिष्यन्त इति चेत्तदपि न प्रमाणकोटिं प्रवेष्टुमीष्टे । अनृत व्याघा पुनरुक्तदोषद्वेषिततया वैदिकंमन्यैरेव धूर्तचकैः परस्परं कर्मकाण्डमामाण्यवा दिभिर्ज्ञानकाण्डस्य ज्ञानकाण्डमामाण्यवादिभिः कर्मकाण्डस्य च प्रतिक्षिप्तत्वेन अय्या धूर्त मला मात्रत्वेनाग्निहोत्रादे जीविकामात्रमयोजनत्वात् । तथा चाऽऽभा
७
णक:--
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ इति ।
1
अत एव कण्टकादिजन्यं दुःखमेव नरकः । लोकसिद्धो राजा परमेश्वरः । देहोच्छेदो मोक्षः | देहात्मबादे च स्थूलोऽहं कृशोऽहं कृष्णोऽहमित्यादिसामानाधिकरण्योपपत्तिः । मम शरीरमिति व्यवहारो राहोः शिर इत्यादिवदौपचा रिकः । तदेतत्सर्व समग्राहि
१ क.–ङ, ॰नालि॰ । २ च. ॰दिजनितं सु' । ३ च न्ते । भीरु' । ४ च. 'दौ त्रैवि' । ५ च. प्रवर्तन्त | ६ च. 'टे | व्या । ७ च तवादमा । ८ क. ड. च कृ । ९ च 'शोऽह ।