________________
सर्वदर्शनसंग्रहेवाच। अनुपदिष्टाविनाभावस्य पुरुषस्यार्थान्तरदर्शनेनार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाः कथाशेषत्वप्रसङ्गाच्च । कैव कथा परार्थानुमानस्य । उपमानादिकं तु दूरापास्तम् । तेषां संज्ञासंज्ञिसंवन्धादिबोधकत्वेनानौपाधिकसंबन्धबोधकत्वासंभवात् ।
किंच-उपाध्यभावोऽपि दुरवगमः । उपाधीनां प्रत्यक्षत्वनियमासंभवेन प्रत्यक्षाणामभावस्य प्रत्यक्षत्वेऽप्यप्रत्यक्षाणामभावस्याप्रत्यक्षतयाऽनुमानाधपेक्षायामुक्तदूषणानतिवृत्तेः । अपि च साधनाव्यापकत्वे सति साध्यसमव्याप्तिरिति तल्लक्षणं कक्षीकर्तव्यम् । तदुक्तम्
अव्याप्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाँधिः । शब्देऽनित्ये साध्ये सकर्तृकत्वं घटत्वमश्रवती च ॥ व्यावर्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि ।
तस्मादिदमनवद्यं समासमेत्यादिनोक्तमाचार्यश्च ॥ इति ।* तंत्र विध्यध्यवसायपूर्वकत्वानिषेधाध्यवसायस्योपाधिज्ञाने जाते तदभाव- - विशिष्टसंबन्धरूपं व्याप्तिज्ञानं व्याप्तिज्ञानाधीनं चोपाधिज्ञानमिति परस्पराश्रयवज्र. प्रहारदोषो वज्रलेपायते । तस्मादविनाभावस्य दुर्बोधतया नानुमानाद्यवकाशः । धूमादिज्ञानानन्तरमग्न्यादिज्ञाने प्रवृत्तिः प्रत्यक्षमूलतया भ्रान्त्या वा युज्यते । कचित्फलपतिलम्भस्तु मणिमन्त्रौषधादिवद्यादृच्छिकः। अतस्तत्साध्यमदृष्यादिकमपि नास्ति । नन्वदृष्टीनिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेन्न तद्भद्रम् । स्वभावादेव तदुपपत्तेः । तदुक्तम्
अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ।
केनेदं चित्रितं तस्मात्स्वभावात्तद्वयवस्थितिः ॥ इति । तदेतत्सर्वं बृहस्पतिनाऽप्युक्तम्
न स्वर्गो नापवर्गो वा नैवाऽऽत्मा पारलौकिकः ।
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥ १॥ * समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि नो व्याप्तस्तयोहीनोऽप्रयोजकः ॥ इति घ. ङ. पुस्तकटिप्पण्याम् ।
१ क.--. °च्च । उ°। २ च. उपास्यभा । ३ च. °रधिग°।४ क. वेनाप्र। ५ क. °वस्याप्रत्यक्षतयाऽनु। ६ च. म् । अ। ७ क.-ड. "पाधिरिति । श°। ८ क.-.नित्यत्वे सा । ९च.तां व्या । १० च. त्र व्यव । ११ च. विध्यव । १२ च. रूपमज्ञा । १३च. °ज्रपातस्ते। त° । १४ च पंधवद्या । १५ च. "टानङ्गीकारे ज° । १६ क.-. चेत्तन्न । १७ क. ख. ग. घ. तं शीतस्प। १८ च र्गो वाऽपि नैवाऽऽत्मा देवो वा पा।