________________
बौद्धदर्शनम् ।
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता ॥ २ ॥ पशुश्चेभिहतः स्त्रर्न ज्योतिष्टोमे गमिष्यति । स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ॥ ३ ॥ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ ४ ॥ गच्छतामिह जन्तूनां व्यर्थ पाथेयकल्पनम् । गेहस्थकृतश्राद्धेन पथि तृप्तिरवारिता ।। ५ ।। स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते ॥ ६॥ यावज्जीवेत्सुखं जीवेद्दणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ ७ ॥ यदि गच्छेत्परं लोकं देहादेष विनिर्गतः । कस्माद्भूयो न चाssयाति बन्धुस्नेहसमाकुलः ॥ ८ ॥ ततश्च जीवनोपायो ब्राह्मणैर्विहितस्त्विह । मृतानां प्रेतकार्याणि न त्वन्यद्विद्यते कचित् ॥ यो वेदस्य कर्तारो भण्डधूर्तनिशाचराः । जर्फरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥ १० ॥ अश्वस्यात्र हि शिश्नं तु पत्नीग्राह्यं प्रकीर्तितम् । भण्डैस्तद्वत्परं चैत्र ग्राह्यजातं प्रकीर्तितम् ॥ ११ ॥ मांसानां खादनं तद्वन्निशाचरसमीरितम् । इति । तस्माद्बहूनां प्राणिनामनुग्रहार्थं चार्वाकमतमाश्रयणीयमिति रमणीयम् ॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे चार्वाकदर्शनम् ॥
९ ॥
अथ बौद्धदर्शनम् ॥ २ ॥
अत्र बौद्धैरभिधीयते । यदभ्यधायि - अविनाभावो दुर्बोध इति तदसाधीयः । तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य सुज्ञानत्वात् । तदुक्तम्कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो ऽदर्शनान्न न दर्शनात् ॥ ( न्या० बि० ) इति ।
१ च. 'रो मुनिभण्डनि' । २ च. अत्र । ३ क. ग. 'दर्शनात्तददर्शना । ख. दर्शनावान्तरदर्शनात् । ङ. व. दर्शनान्तरदर्शनात् ।