________________
सर्वदर्शनसंग्रहेअन्वयव्यतिरेकावविनाभावनिश्चायकाविति पक्षे साध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत् । भूते भविष्यति वर्तमाने चानुपलभ्यमानेऽर्थे व्यभिचारशकाया अनिवारणात् । ननु तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेन्मैव वोचः। दिनाऽपि कारणं कार्यमुत्पद्यतामित्येवंविधायाः शङ्काया व्याघातावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्कयेत यस्मिन्नाशयमाने व्याघा. तादयो नावतरेयुः । तदुक्तम्- व्याघातावधिराशङ्का[न्या० कु० ३ । ७] इति । तस्मात्तदुत्पत्तिनिश्चयेनाविनाभावो निश्चीयते । तदुत्पत्तिनिश्चयश्च कार्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः । कार्यस्योत्पत्तेः प्रागनुपलम्भः कारणो. पलम्भे सत्युपलम्भ उपलब्धस्य पश्चात्कारणानुपलम्भादनुपलम्भ इति पञ्चकारण्या धूमधूमध्वजयोः कार्यकारणभावो निश्चीयते । तथा तादात्म्यनिश्वयेनाप्यविनाभावो निश्चीयते । यदि शिंशपा वृक्षत्वमतिपतेत्स्वात्मानमेव जह्यादिति विपक्षे बाधक प्रवृत्तेः । अप्रवृत्ते तु. बाधके भूयः सहभावोपलम्भेऽपि व्यभिचारशङ्कायाः को निवारयिता । शिंशपावृक्षयोश्च तादात्म्यनिश्चयो वृक्षोऽयं शिंशपति सामानाधिकरण्यबलादुपपद्यते । न ह्यत्यन्ताभेदे तत्संभवति । पर्यायत्वेन युगपत्प्रयोगायोगात् । नाप्यत्यन्तभेदे । गवा श्वयोरनुपलम्भात् । तस्मात्कार्यात्मानौ कारणात्मानावनुमापयत इति सिद्धम् ।।
यदि कश्चित्मामाण्यमनुमानस्य नाङ्गीकुर्यात्तं प्रति ब्रूयात् । अनुमानं प्रमाणं न भवतीत्येतावन्मात्रमुच्यते तत्र न किंनन साधनमुपन्यस्यत उपन्यस्यते वा । न प्रथमः । अशिरस्कवचनस्योपन्यासे साध्यासिद्धः। .
एकाकिनी प्रतिज्ञा हि प्रतिज्ञात न साधयेत् । इति न्यायात् । नापि चरमः । अनुमानं प्रमाणं न भवतीति ब्रुवाणेनं वच. नप्रमाणमनभ्युपगच्छता त्वया स्वपरकीयशास्त्रे प्रामाण्येनोपग्रहीतस्य वचनस्यो. पन्यासे मम माता वन्ध्येतिवव्याघातापातात् । किं च प्रमाणतदाभासव्यवस्थापनं तत्समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावानुमानम् । पर
१ ख. नियामका । २ व. च. °ति ननु प । ३ क. नेऽपि व्य । ग. "ने व्य । घ.-च. °ने च व्य° ४ क. °रिहारे । ५ च. हरैवेति । ६ च. °वम् । वि । ७ च. "न्धनस्तादात्म्यनिश्चयोsनाविनाभावो निश्चीयते ता । ८ च. योस्ताद। । ९ च. त् । यस्मा । १० घ. च. "रणमात्मानमर्नु । ख. रणावनु । ११ ख.-च. स्यते वा। १२ क. °न त्वया पारस्करबचनस्यो । ग. 'नत्वाच्छिरस्कव । ख. °न त्वया स्ववचनस्यो । इति पाठः ख. पुस्तकस्य समासे वर्तते । ङ.--च न त्वयाऽशिरस्कवचनस्यो । १३ घ. तं प्रमाणाभासानु ।