________________
प्रत्यभिज्ञादर्शनम्। मपेक्ष्येत । तथा च योगीच्छासमनन्तरसंजातघटदेहादिसंभवो दुःसमर्थः एवं स्यात् । चेतन एव तु तथा भाति भगवान्भूरिभगो महादेवो नियत्यनुवर्तनोल्लङ्घनघनतरस्वातन्त्र्य इति पक्षे न काचिदनुपपत्तिः । अत एवोक्तं वसुगुप्ताचार्य:--
निरुपादानसंभारेमभित्तावेव तन्वते ।
जगचित्रं नमस्तस्मै कलानाथाय शूलिने ॥ इति । ननु प्रत्यगात्मनः परमेश्वराभिन्नत्वे संसारसंबन्धः कथं भवेदिति चेत्तप्रोक्तमागमाधिकारे~
* एष प्रमाता मायान्धः संसारी कर्मबन्धनः ।
विद्यादिज्ञापितश्वर्यश्विद्घनो मुक्त उच्यते ॥ इति । ननु प्रमेयस्य प्रमात्रभिन्नत्वे बद्धमुक्तयोः प्रमेयं प्रति को विशेषः । अत्रा प्युत्तरमुक्तं तत्त्वार्थसंग्रहाधिकारे--
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते ।
महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ।' इति । नन्वात्मनः परमेश्वरत्वं स्वाभाविकं चेन्नार्थः प्रत्यभिप्रार्थनया । न हि बीजमप्रत्यभिज्ञातं सति सहकारिसाकल्येऽङ्कुर नोत्पादयति । तस्मात्कस्माद्वाऽऽस्मप्रत्यभिज्ञाने निबन्ध इति चेदुच्यते । शृणु तावदिदं रहस्यम् । द्विविधा ह्यर्थक्रिया बाह्याऽङ्कुरादिका प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा च । तत्राऽऽद्या प्रत्यभिज्ञानं नापेक्षते । द्वितीया तु तदपेक्षत एव । इहाम्यहमीश्वर इत्येवंभूतचमत्कारसारा परापरसिद्धिलक्षणजीवात्मैकत्वशक्तिविभूतिरूपार्थक्रियेति स्वरूपपत्यभिज्ञानमपेक्षणीयम् । ननु प्रमातृविश्रान्तिसाराऽर्थक्रिया प्रत्यभिज्ञानेन विनाऽदृष्टी सती तस्मिन्दृष्टेति क दृष्टम् । अत्रोच्यते । नायकगुणगणसंश्रवणमद्धानुरागा काचन कामिनी मदनविह्वला विरहक्लेशमसहमाना मद. नलेखावलम्बनेन स्वावस्थानिवेदनानि विधत्ते । तथा वेगात्तनिकटमन्त्यपि तस्मिन्नवलोकितेऽपि तदवलोकनं तदीयगुणपरामर्शाभावे जनसाधारणत्वं प्राप्ते
१च. °ति भर्गो भूरिभाग इति भर्गो म । २ ख. भागो । ३ ख. यन्त्यानु । ४ घ. 'तनमुल्लङ्घ्य घ । ५ घ. 'रस्वभि । ६ ख. 'मसितावेद्यत । ७ ङः-च. लाइलाध्याय । ८ च विज्ञानज्ञा । ९ क. ग.-च. बन्धमु । १० ख. 'योः को । ११ ख. मुच्यते । १२ ख. ज्ञाप्रथमया । १३ ख. ज्ञाते स । १४ क. 'बन्धन इ° । ग. निबन्धन इ । १५ ख. 'टा सा त। १६ ख. °णसं । १७ ख. ग. ङ.-च. 'टत्यपि । १८ क. पि तदी' । ख. °पि ते तदः । घ. •पि तमलों।