________________
.' ETC
सर्वदर्शनसंग्रहेजातस्य भासकत्वमभ्युपेयते । नतश्च विषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोपरागभेदाभेदः । वस्तुतस्तु देशकालाकारसंकोचवैकल्यांदभेद एवं। स एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते । तथा च पठितं शिवसूत्रेषु चैतन्यमात्मेति । तस्य चिद्रूपत्वमनच्छिन्नविमर्शत्वमनन्योन्मुखत्वमानन्दैकघनत्वं माहेश्वर्यमिति पर्यायः । स एव हयं भावात्मा विमर्शः शुद्ध पारमार्थिक्यौ ज्ञानक्रिये । तत्र प्रकाश रूपता ज्ञानम् । स्वतो जगन्निर्मातृत्व क्रिया । तच्च निरूपित क्रियाधिकारे---
एष चाऽऽनन्दशक्तित्वोदेवमाभासयत्यमून् ।
भावानिच्छाव शादेषां क्रिया निर्मातॄताऽस्य सा ॥ इति । उपसंहारेऽपि
इत्थं तथा घट:टाद्याकारजगदात्मना । तिष्ठासोरेवमिच्छैव हेतुकर्तृकृता क्रिया ॥ इति । तस्मिन्सतीदमस्तीति कार्यकारणताऽपि या । ।
साऽप्यपेक्षाविहीनानां जडानां नोपपद्यते :: .... इति न्यायेन यतो जडस्य न कारणता न वाऽनीश्वरस्य चेतनस्यानि तस्मात्तेन तेन जगद्गतजन्मस्थित्यादिभावविकारतत्तद्भेदक्रियासमन्त्ररूपेण धातुमिच्छो स्वतन्त्रस्य भगवतो महेश्वरस्येच्छवोत्तरोत्तरमुच्छूनस्वभाँचा क्रिया विश्वकर्तृत्वं वोच्यत इति । इच्छामात्रेण जगन्निर्माणमित्यत्र दृष्टान्तोऽपि स्टुं निर्दिष्टः
योगिनामपि मुद्धीजे विनैवेच्छावशेन यत् । ।
घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ।। इति । यदि घटादिकं प्रति मृदायेव परमार्थतः कारणं स्याताई कथं योगीच्छा मात्रेण-घटादिजन्म स्यात् । अथोच्येतान्य एव मृद्धीजादिजन्या घटाडारादयो योगीच्छाजन्यारत्वन्य एवोते तत्रापि बोध्यसे-सामग्रीभेदात्तावत्कार्यभेद इति सर्वजनप्रसिद्धम्। .
. ........ ये तु वर्णयन्ति नोपादानं विना घटायुत्पत्तिरिति योगी विच्छया परमा णून्व्यापारयन्संघटयतीति तेऽपि बोधनीयाः । यदि परिदृष्टकार्यकारणभावविपर्ययो न लभ्येत तर्हि घटे मद्दण्डचक्रादि देहे स्त्री पुरुषसंयोगादि सर्व
१ च. °स्य विमर्शरूप । २ च. त्वसुखत्वमा । ३ ख. एवाहं भा' । ४ क. ग घ. ह्यहंभा । ५ ख. "तृतोऽस्य । च. तताऽस्य ते । उ० । ६ ख. °न ज । ७ घ. भावक्रिया । ८ च. "स्वात्मक्रियात्मकमिति । ९ .-न्यास्त्वन्या ए° । च. न्यास्तदन्या ए° । १० ख. °त्विच्छाप । ११ च. 'दृश्यका।