SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रत्यभिज्ञादर्शनम् । ७५ परवद्राजवता । आत्मा च विश्वज्ञाता कर्ता च । तस्मादीश्वरोऽयमिति । अवयवपञ्चकस्याऽऽश्रयणं मायावदेव नैयायिकैमतस्य + कक्षीकर गात् । तदुक्तमुदैयकरमूनुना कर्तरि ज्ञातरि स्वात्मन्यादिसिद्ध महेश्वरे । अंजडास्मा निषधं वा सिद्धिं वा विदधीत कः॥ . किंतु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदयते ।। तथाहि-सर्वेषामिह भूतानां प्रतिष्ठा + जीवदाश्रया । ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥ तत्र ज्ञानं स्वतःसिद्धं क्रिया कार्याश्रिता सती । =परैरप्युपलक्ष्येत तोऽन्यज्ञानमुच्यते ॥ इति । या चैषां प्रतिभा तत्तत्पदार्थक्रमलैपिना । अक्रमानन्दचिद्रूपः प्रमाता स महेश्वरः ॥ इति च । सोमानन्दनाथपादैरपि सदा शिवात्मना वेत्ति सदा वेत्ति मैदात्मना ॥ इत्यादि । शामाधिकारपरिसमाप्तावपि तदैक्येन विना नास्ति संविदा लोकपद्धतिः । प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितिः। स एव विमृशत्वेन नियतेन महेश्वरः। विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ इति । विहतं चाभिनवगुप्तौंचायः । तमेव भान्तमनुभाति सर्व तस्य भासा. सर्व मिदं विभाति ' (का०.२.२ ) इति श्रुत्या प्रकाशचिद्रूपमहिन्ना सर्वस्य भाव ___+ घ. पु. टि.- तस्य पञ्चावयवानुमानस्य कक्षीकरणादङ्गीकारात् । * घ. पु. टि.--जडता. सिद्धिम् । + घ. पु. टि.-जीयतामाश्रयो जीवदाश्रयः। = घ. पुटि.-तयाऽपरैरप्यात्मोपलक्ष्येत तस्याः। ४ प. पु. टि.--काश्याश्रिता प्रकाशाश्रिता सती वर्तते। . १ क. ग. श्वत्र ज्ञा । ख. घ. श्वस्य ज्ञा । २ ग.-च. यावादेन नै । ३ ख. 'कवत्तस्य । च. °कपदस्य । ४ घ. °क्षीकारात् । ५ क. ख. ग. दयाक° । ६ च. अयमात्मा । ७ ख. घ. 'भिज्ञा प्रद। ८ घ. 'श्रयः । ९ च. वनिर्मित । १० क.--. x °या काश्यानि । ११ क. ग.-च. तयाऽन्यज्ज्ञा । १२ क. ख. घ. रूषिता। १३ घ. महात्मना । १४ क. ग.-च. स्थितः। १५ क. ख. घ. एवाथ भृश । ग. °एवावभृश । ङ.- एवार्थमृश । १६ ड.-च. "प्तायः । १७ क. ख. ग. त्या च प्र।
SR No.002416
Book TitleSarva Darshan Sangraha
Original Sutra AuthorN/A
AuthorVinayak Ganesh
PublisherAnand Ashram
Publication Year1928
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy