________________
७४
.
सर्वदर्शनसंग्रहे-- तल्लक्षणयोगात् । न ह्ययं देवशापः स्वार्थ एव प्रयोजनं न परार्थ इति । अत एवोक्तमक्षपादेन--यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् (गौ सू० १।१ २४ ) इति । उपशब्दः सामीप्यार्थः । तेन जनस्य परमेश्वरसमीपताकरणमात्र फलम् । अत एवाऽऽह समस्तति । परमेश्वरतालाभे हि सर्वाः संपदस्तनिष्यन्दमय्यः संपन्ना एव रोहणाचललाभे रत्नसंपद इव । एवं परमेश्वरतालाभे किमन्यत्मार्थनीयम् । तदुक्तमुत्पलाचा:
भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।
एतया वा दरिद्राणां किमन्यदपयाचितम् ॥ इति । . . इत्थं षष्ठीसमासपक्षे प्रयोजनं निर्दिष्टम् । बहुव्रीहिपक्षे तूंपपादयामः । समस्तस्य बाबाभ्यन्तरस्य नित्यसुखादेर्या संपत्सिाद्धस्तथात्वप्रकाशस्तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभिज्ञाया हेतुः सा तथोक्ता । तस्य महेश्वरस्य प्रत्यभिज्ञा प्रत्या. भिमुख्येन ज्ञानम् । लोके हि स एवायं चैत्र इति प्रतिसंधानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यवहियते । इहापि प्रसिद्धपुराणसिद्धागमानुपानादिज्ञातपरिपूर्णशक्ति के परमेश्वरे सति स्वात्मन्यभिमुखीभूते तच्छक्तिमतिसंधानेन ज्ञानमुदेति नूनं स एवेश्वरोऽहमिति । तामेतां प्रत्यभिज्ञामुपपादयामि । उपपत्तिः संभवः । संभवतीति * तत्समर्थाचरणेन प्रयोजनव्यापारण संपा. दयामीत्यर्थः ।
यदीश्वरस्वभाव एवाऽऽत्मा प्रकाशते तहि किमनेन प्रत्यभिज्ञापदर्शनप्रया. सेनेति चेत्तप्रायं समाधिः--स्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायापशाद्भांगेन प्रकाशमाने पूर्णतावभाससिद्धये हक्रियात्मकशक्त्याविष्करणेन प्रत्यभिज्ञा प्रदर्यते । तथा च प्रयोगः- अयमात्मा परमेश्वरो भवितुमर्हति । ज्ञानक्रियाशक्तिमत्वात् । यो यावनि ज्ञाता को च स तावतीश्वरः प्रसिद्धे.
___ * घ. पु. टि.- तत्समर्थाचरणेनेत्यस्य विवरणं प्रयोजनति । प्रयोजनयुक्तो व्यापारः प्रयोजनध्यापारः । सफलानुष्ठानेनेत्यर्थः ।
१च. 'रधर्मसमीपः शर । २ क. ग. पदः । ए' । ३ घ. 'व । ४ क. स. प.-. एनया। च. अनया । ५ के.-. डा. च. तूपायः स । ६ क. नातिस । ङ.- नित्यासु । ग. नीतसु । ७ ख. घ. 'स्तत्त्वप्र । ८ के.-ग. ङ. 'तिमाभि । च 'तिपाभि । ९ च. °द्धान्तागमानादिपरिज्ञा । १० क. ख. 'दिपरिज्ञा । ग. 'दिपरिज्ञातं प० । घ. 'दिपरिज्ञाते प। ११ क.-ग. च. मेनां प्र । १२ क. ग. वन्तीति। १३ च. प्रत्यभिज्ञाव्या । १४ क. ग.-च शने । १५ क ख. °सनसि । १६ ख. त्मश । १७ ख. प्रसिद्धः प्र। .