________________
सर्पदर्शनसंग्रहेहृदयंगमभाव न लभते । यदा तुं * दूनीवचनात्तदीयगुणपरामर्श करोति तदा तत्क्षणमेव पूर्णभावमभ्येति । एवं स्वात्मनि विश्वेश्वरात्मना भासमानेऽपि तन्निर्भासनं तदीयगुणपरामर्शविरहसमये पूर्णभावं न संपादयति । यदा तु गुरुखचनादिना सर्वत्विसर्वकर्तृत्वादिलक्षणपरमेश्वरोत्कर्षपरामर्शो जायते तदा तत्क्षणमेव पूर्णात्मतालाभः । तदुक्तं चतुर्थे विमर्श
तैस्तैरप्युपयाचितैरुपनतस्तस्याः स्थितोऽप्यन्ति के कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा। . लोकस्यैष तथाऽनवेक्षितगुणः स्वात्माऽपि विश्वेश्वरो ।
नैवायं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ।। इति । अभिनवगुप्तादिभिराचार्यैर्विहितप्रतानोऽप्ययमर्थः संग्रहमुपक्रममाणैरस्माभिर्विस्तरभिया न प्रनानित इति सर्व शिवम् । .
इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे प्रत्यभिज्ञादर्शनम् ॥.
अथ रसेश्वरदर्शनम् ॥ ९ ॥
- अपरे माहेश्वराः परमेश्वर तादात्म्यवादिनोऽपि पिण्डस्थैर्ये सर्वाभिमता जीवन्मुक्ति सेत्स्यतीत्यास्थाय पिण्डस्थोपायं पारदादिपदवेदनीयं रसमेव संगि . रन्ते । रसस्य पारदत्वं संसारपरपारपापणहेतुत्वेन । तदुक्तम्
- संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः ॥ इति । रसार्णवेऽपि
पारदो गदितो यस्मात्परार्थ साधकोत्तमैः ।
सुप्तोऽयं मत्समो देवि मम प्रत्यङ्गसंभवः । .... मम देहरसो यस्माद्रसस्तेनायमुच्यते ।। इति । ननु प्रकारान्तरेणापि जीवन्मुक्तियुक्तों नेयं वाचोयुक्तियुक्तिमतीति चेन्न ।
* घ. पु. टि.-निकटवर्तिसख्यादिवचनाद्वा ।
...१ ख. घ. वं ल° । २ क.-ङ. तु मूर्तिव । ३ क. ख. ग. घ. °नादिना तदी । ४ क.-ग. ङ. मत्येति । ५ क. ख. ग. घ. ज्ञत । ६ घ. पूर्णता । ७ च. 'ताभावः । त° । ८ ख. नतं तस्याः 1९ ङ.-च. मैव । १० च दिदं त । ११ क. °मर्थसं । १२ क. घ. "भिज्ञानद । १३ घ. पायपा।