________________
रसेश्वरदर्शनम् ।
७५ पट्स्वपि दर्शनेषु देहपातानन्तरं मुक्तरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्सप्रवृत्तेरनुपपत्तेः । तदप्युक्तं तत्रैव
षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने । करामलकवत्साऽपि प्रत्यक्षा नोपलभ्यते ।
तस्मात्तं रक्षयेत्पिण्डं रसैश्चैव रसायनैः ॥ इति । गोविन्दभगवत्पादाचारपि
. इति धनशरीरभोगान्मत्वा नित्यान्सदैव यतनीयम् ।
. मुक्तौ सा च ज्ञानात्तचाभ्यासात्स च स्थिरे देहे ॥ इति । ननु विनश्वरतया दृश्यमानस्य देहस्य कथं नित्यत्वमवसीयत इति चेन्मैवं मंस्थाः । षाटकौशिकस्य शरीरस्यानित्यत्वेऽपि रसाभ्रकपदाभिलप्यहरगौरीसृ. ष्टिजातस्य नित्यत्वोपपत्तेः । तथा च रसहृदये
ये चात्यक्त शरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः।
मुक्तास्ते रससिद्धा मन्त्रगणः किंकरो येषाम् ॥ (१।७)इति । तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्यतनुर्विधेया। हरगौरी. सृष्टिसंयोगजनितत्वं च रसस्य हरजत्वेनाभ्रकस्य गौरीसंभवत्वेन तत्तदात्मकत्वमुक्तम्- --
अभ्रकस्तव बीजं तु मम बीजं तु पारदः ।
अनयमिलनं देवि मृत्युदारिद्यनाशनम् ॥ इति । अत्यल्पमिदमुच्यते । देवदैत्य मुनिमानवादिषु बहवो रससामर्थ्यादिव्यं देहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसिद्धान्ते
देवाः केचिन्म हशाया दैत्याः काव्यपुरःसराः । मुनयो वालखिल्याद्या नृपाः सोमेश्वरादयः ॥ गोविन्द भगवत्पादाचार्यो गोविन्दनायकः। चर्वटिः कपिलो व्यालिः कापालिः कन्दलायनः ।। एतेऽन्ये बहवः सिद्धा जीवन्मुक्ताश्चरन्ति हि ।
तनुं रसमयीं प्राप्यं तदात्मककथाचणाः ॥ इति । अयमेवार्थः परमेश्वरेण परमेश्वरी प्रति प्रपश्चित:
कर्मयोगेण देवेशि प्राप्यते पिण्डधारणम् ।
१क -ग. इ. च. ताः । वन्द्यास्ते । च. ताः। बन्धास्ते। २ घ.ष्टि जान्तरत्वं हरगौरीसंयोगजनितत्वं । ३ च 'योऽमी वसिष्ठाद्या । ४ च. पर्पटिः । ५ च. कपालिः । ६ घ. "प्य तपात्मानोऽथ चारणाः। ई । ७ क -ग. ङ, च. वास्यार्थः ।