________________
शांकरदर्शनम् ।
१५५ मिथ्याभावोऽपि तत्तुल्यव्यवहारप्रवर्तनात् । । रेजतव्यवहारांशे विसंवादयतो नरात् ॥ बाधकप्रत्ययस्यापि बाधकत्वमतो मतम् । '
प्रसज्यमानरजतव्यवहारनिवारणात् ॥ (प्रक० ५०४।३८-३९)इति। तदनेन प्राचीनयोनियोः सत्यत्वे 'कथं भ्रमत्वप्रसिद्धिरिति शङ्का पराकृता । अयथाव्यवहारप्रवर्तकत्वेन तदुपपत्तेः। . । किंच नेदं रजतमिति बाधकावबोधो नाभावमवगाहते । भावव्यतिरेकेणा: भावस्य दुर्ग्रहणत्वात् । यद्येवमङ्ग नास्तीति प्रत्ययस्य किमालम्बनम् । अपरथा माहाभानिकंपक्षानुप्रवेश इति चेन्मैवं भाषिष्ठाः । अभावस्य धर्मिप्रतियोगिनिरूपणाधीननिरूप्यत्वेनावश्याभ्युपगमनीये दृश्ये प्रतियोगिन्यदृश्ये वा स्मर्यमाणेऽधिकरणमात्रबुद्धेरेव नास्तीति व्यवहारोपपत्तावतिरिक्ताभावकल्पनाया प्रमाणाभावात् । तदुक्तममृतकलायाम् -
अत्रोच्यते द्वयी संविद्वस्तुनो भूतलादिनः । एका संसृष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वाऽपि द्वयी साऽय निगद्यते । प्रतियोगिन्यदृश्ये च दृश्ये च प्रतियोगिनि ॥
तत्र तन्मात्रधीयं स्मृते च प्रतियोगिनि । . नास्तित्वं सैव भूभागे घटादिप्रतियोगिनः॥ (प्रक०प०६।३७-३९) इति । अत एव च प्राभाकरमतानुसारिभिः प्रमाणपारायणे प्रत्यक्षादीनि पश्चैव प्रमाणानि अपश्चितानि । नन्वेवमभावस्याभावे नकारस्य वैयर्यमापयेत । अनुशासनविरोधश्चाऽऽपतेदिति चेत्तदेतद्वार्तम् । एकोनपश्चाशद्वर्णानां मध्ये कस्यापि वर्णस्याभावार्थत्वादर्शनेन वर्णस्य सतो नकारस्य तदर्थत्वानुफ्पत्तेः । न चैवमनुशासनविरोधः । तदन्यतदभावतविरुद्धेष्वर्थेष्वनुशासनस्यैवमर्थः स्यात् । तथाहि-चेतनानां मध्ये कश्चन कस्यचिच्छत्रुः कश्चन कस्यचिन्मित्रं कश्चन कस्यचिदुदासीनस्तथैवाचेतानानामपि । तदन्यपदेन तदुदासीनो नकारार्थः । विरुद्धपदेन शत्रुनकारार्थः । तदभावपदेन मित्रं नकारार्थः । तथा चाब्राह्मणपद एवैतत्रयं प्रतीयते शूद्र इत्युदासीनो यवन इति शत्रुः क्षत्रिय इति मित्रम् । एवं सर्वत्र नभयोगस्थले द्रष्टव्यमिति न कश्चिदभावो भावव्यतिरिक्तः संभवति । तस्मादुक्तया रीत्या भ्रमबाधप्रसिद्धया विवादाभ्यासिताः प्रत्यया यथार्थाः प्रत्ययत्वाद्दण्डीति प्रत्ययवदिति सिद्धम् । ... १ ख. रव' । २ ख. रसितं व्य' । ३ ख. म् । आस। ४ ख. °वव्यति । ५ ख. सिद्धत्वाद्विवा।