________________
सर्वदर्शनसंग्रहे—
ग्रहणस्मरणे चेमे विवेकानवभासिनी । सम्यग्रजतबोधाच्च भिन्ने यद्यपि तत्त्वतः ॥ तथाऽपि भिन्ने नाssभाते भेदाग्रहसमत्वतः । सम्यग्रजत बोधस्तु समक्षैकार्थगोचरः ॥ ततो भिन्ने अबुद्ध्वा च ग्रहणस्मरणे इमे । समानेनैव रूपेण केवलं मन्यते जनः ॥ अपरोक्षावभासेन समानार्थग्रहेण च । अवैलक्षण्यसंवित्तिरिति तावत्समर्थिता ।
व्यवहारोऽपि तत्तुल्यस्तत एव प्रवर्तते । (प्रक०प०४ । ३३-३७) इति । एवम गृहीतविवेक मापन्नसंनिहित रूप्यज्ञानसारूप्यं ग्रहणस्मरणद्वयमं यथाव्यवहारहेतुरिति सिद्धम् । यद्येवमयथाव्यवहारो ग्रहणस्मरणजन्यस्तर्हि पीतः शङ्ख इत्यादौ स न सिद्धस्तत्र तयोरभावादिति चेन्न । अगृहीतविवेकयोः प्राप्तसमीचीनसंसर्गज्ञानसारूप्यत्वे ग्रहणयोरेव व्यवहार संपादकत्वोपपत्तेः । नयनरश्मिवतिनः पित्तद्रव्यस्य पीतिमा दोषवशाद्द्रव्यरहितो गृह्यते । शङ्खोऽप्यकलितशुक्लगुणः स्वरूपतो गृह्यते । तदनयोर्गुणगुणिनोः संसर्गयोग्ययो र संसर्गाग्रह सारूप्यात्पतितपनीय पिण्डमत्यया वैलक्षण्याद्व्यवहार उपपद्यते । यथोक्तम्
१५६
पीतशङ्खावबोधे हि पित्तस्येन्द्रियवर्तिनः । पीतिमा गृह्यते द्रव्यरहितो दोषतस्तथा ॥ 'शङ्खस्येन्द्रियदोषेण शुक्तिमा न च गृह्यते । केवलं द्रव्यमात्रं तु मैथते रूपवर्जितम् ॥ गुणे द्रव्यंव्यपेक्षे च द्रव्ये च गुणकाङ्क्षिणि । भासमाने तयोर्बुद्धिरसंबन्धं न बुध्यते ॥
. सत्यपीतावभासेन समे भाते मती इमे ।
व्यवहारोऽपि तत्तुल्य एवमत्रापि युज्यते ।। ( प्रक०प०४।४८-५१) इति । नन्विदं रजतमिति भ्रान्तिज्ञानानभ्युपगमे रजतप्रसक्तेरस स्वाभेदं रजतमिति निषेधः कथं कलधौताभावं बोधयतीति चेन्नैष दोष: । भेदाग्रहप्रसञ्जितस्य शुक्तौ रजतव्यवहारस्य निषेधस्वीकारेण कल्पनालाघवसद्भावात् । तदुक्तं पञ्चिकाप्रकरणे -
१ ख.॰नार्थे ग्र ं । २ ख. 'तेः । विनीय न'। ३ ख. 'गुणितोऽसं' । ४ ख. 'नः । पित्तमा । ५ ख. प्रथिते । ६ ख. व्यस्य पक्षे । ७ ख 'क्षिणे । ८ ' त्यपित्ताव' ।