________________
शांकरदर्शनम् ।
१५५
तम । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणस्य दोषदूषितचक्षुर्जन्यत्वेनानां कलितशुक्तित्वादिविशेषितस्य सामान्यमात्रग्रहणरूपत्वाद्रजन मिति ज्ञानस्यामनिहितविषयस्य संप्रयोगलिङ्गायप्रसूततया सदृशावबोधितसंस्कारमात्रमभवत्वेन परिशेषमाप्तस्मृतिभावस्य दोषहेतुकतया गृहीततत्तांश मोषाद्ग्रहणमात्रत्वोपपत्तेः । तदप्युक्तम्---
नन्वत्र रजताभासः कथमेष घटिव्यते । उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् || शुक्तिकाया विशेषा ये रजताद्भेदहेतवः । ते न ज्ञाता अभिभवाज्ज्ञाता सामान्यरूपता । अनन्तरं च रजतस्मृतिर्जाता तथाऽपि च । मनोदोषात्तदित्यंशपरामर्शविवर्जितम् ॥ रजतं विषयीकृत्य न तु शुक्तेर्विवेचितम् । स्मृत्याऽतो रजताभास उपपन्नो भविष्यति ।। (प्रक०प०४।२६ - २९) इति । न संनिहितं तावत्प्रत्यक्षं रजतं भवेत् ॥ लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः । परिशेषात्स्मृतिरिति निश्चयो जायते पुनः || ( प्रक०प०४ । ३१ - ३२ ) इति ।
ननु किमिदमेकैकं व्यवहारकारणमुत संभूय । न प्रथमः । देशभेदेन प्रवृत्तिप्रसङ्गात् । न चरमः । प्रयत्नायौगपद्याज्ज्ञाना यौगपद्यात् ( बै० सू० ३ । २ । ३ ) इत्यादिना ज्ञानयोगपद्यनिषेधात् । अतो ज्ञानद्वयं हेतुरित्ययुक्तं वच इति चेन्मैवं वोचः । अविनश्यतोः सहावस्थाननिषेधेऽपि विनश्यद विनश्यतोः सहावस्थानस्यानिषिद्धत्वेन निरन्तरोत्पन्नयोस्तदुपपत्तेः । ननुं रजतज्ञानाद्रजतार्थी रजते प्रवर्ततां नाम । पौरस्त्ये वस्तुनि कथं प्रवृत्तिः स्यादिति चेन्न । स्वरूपतो विषय तथा गृहीतभेद योर्ग्रहणस्मरणयोः संनिहितरजत गोचरज्ञान सारूयेणं वस्तुतः परस्परं विभिन्न योरप्य भेदोचित सामानाधिकरण्यव्यपदेशहेतुत्वोपपत्तेः । ग्रहणस्मरणयोः संनिहितरजतज्ञानसारूप्यं कथम् । यथा चैतत्तथा निशम्यताम् । संनिहितरजतगोचरं हि विज्ञानमिदमंशरजतांश योरसंसर्ग नाव: माहते । तयोः संसृष्टत्वेनासंसर्गस्यैवाभावात् । नापि स्वगतं भेदम् । एकज्ञानत्वात् । एवं ग्रहणस्मरणे अपि दोषवशाद्विद्यमानमपीदमंश रजतांश योर संसर्ग भेदं नावगाहत इति । भेदाग्रहणमेव सारूप्यम् । तदुक्तं गुरुमतानुसारिभिः
१ ख. °धे वि° ।