________________
सर्वदर्शनसंग्रहअत्र ब्रूमो य एवार्थो यस्यां संविदि भासते । वेद्यः स एव नान्यद्धि वेद्यावेद्यत्वलक्षणम् ॥ इदं रजतमित्यत्र रजतं त्ववभासते । तदेव तेन वेद्यं स्यान तु शुक्तिरवेदनात् ॥
तेनान्यस्यान्यथा भासः प्रतीत्यैव पराहतः । अन्यस्मिन्भासमाने हि न परं भासते यतः । (प्रक० ५०४।२३-२५) इति । किंच मिथ्याज्ञानोत्पत्तौ सामग्री न समस्ति । किं केवलानीन्द्रियादीनि कारणानि दोषदूषितानि वा । नाऽऽद्यः। तेषां समीचीनज्ञानजननसामर्योपलम्भात् । अन्यथा समीचीनं रजतज्ञानं न कदाचिदुदयमासादयेत् । न द्वितीयः । दोषाणामौत्सर्गिककार्यप्रसवशक्तिप्रतिबन्धमात्रप्रभावत्वात् । न हि दुष्टं कुटजबीजं वटाङ्कुरं जनयितुमीष्टे । न वा तैलकलुषितं शालिबीजमशाल्यछुरजननायालम् । किंतु स्वकार्य न करोति । ननु दावदहनदग्धस्य वेत्रबी. जस्य कदलीकाण्डजनकत्वं दृष्टमिति चेत्तन्न स्थाने । दग्धस्यावेत्रबीजत्वेन दोषाणां विपरीतकार्यकारित्वं प्रत्यनुदाहरणात् । न च भस्मकदोषदूषितस्य कौक्षयकस्याऽऽशुशुक्षणेर्बहनपचनसामथ्र्य दृष्टमित्येष्टव्यम् । अशितपीताया. हारपरिणती जाठरस्य जातवेदसः शक्तत्वात् । तदुक्तम्
अयथार्थस्य बोधस्य नोत्पत्तावस्ति कारणम् । दोषाश्चेन्न हि दोषाणां कार्यशक्तिविघातता ॥
भस्मकादिषु कार्यस्य विघातादेव दोषता। " भनेहि रसनिष्पत्तिः कार्य जठरवर्तिनः ।। (प्रक० ५०४।७३-७४) इति । अपि चासत्यप्यर्थे ज्ञानप्रादुर्भावाभ्युपगमे समीचीनस्थलेऽपि ज्ञानानां स्वगो. घरध्यभिचारशङ्काङ्कुरसंभवेन निरङ्कुशो व्यवहारो लुप्यते । तदाह
यदि चार्थ परित्यज्य काचिद्बुद्धिः प्रकाशते । व्यभिचारवति स्वार्थे कथं विश्वासकारणम् ।। (प्रक० १०४।६६) इति । नन रजतगोचरैकविशिष्टज्ञानानङ्गीकारे विशिष्टव्यवहारो न सिध्येत् । अतस्तत्सिद्धयेऽपि विपर्ययोऽङ्गीकार्य इति चेन्न । इदं रजतमिति ग्रहण. स्मरणाभिधस्य बोधद्वयस्य व्यवहारकारणत्वाङ्गीकारात् । यद्येव. मिदं शुक्तिकाशकलं तद्रजतमित्यतोऽपि विशिष्टव्यवहारः स्यादिति ।
१ ख. 'रिहरणतौ । २ ख. तथाऽऽह ।