________________
शांकरदर्शनम् । निष्पदेशे परमाणौ प्रदेशवृत्तित्वेनाभिमतस्य संयोगस्य दुरुपपादनतया तन्निबन्धनस्य व्यणुकस्यासिद्धौ व्यणुकादिक्रमेणाऽऽरम्भवादासंभवादचेतनाया। प्रकृतेर्महदादिरूपेण परिणामवादासंभवाच्च ख्यातिबाधान्यथानुपपत्त्याऽनिर्वचनीयः प्रपश्चश्चिद्विवर्त इति सिद्धम् । स्वरूपापरित्यागेन रूपान्तरापत्तिविवर्त इति सत्यमिथ्याख्यावभास इति । अवभासोऽध्यास इति पर्यायः । स चाध्यासो द्विविधः । अर्थाध्यासो ज्ञानाध्यासश्चेति । तदुक्तम्
प्रमाणदोषसंस्कारजन्माऽन्यस्य परात्मता। .
तद्धीश्चाध्यास इति हि द्वयामिष्टं मनीषिभिः ॥ इति । पुनरपि द्विबिधोऽध्यासः । निरुपाधिकसोपाधिकभेदात् । तदप्युक्तम्
दोषेण कर्मणा वाऽपि क्षोभिताज्ञानसंभवः । तत्त्वविद्याविरोधी च भ्रमोऽयं निरुपाधिकः ।। उपाधिसंनिधिप्राप्तक्षोभाविद्याविजृम्भितम् ।।
उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम् ।। इति । .. तत्र स्वरूपेण कल्पिताहमाद्यध्यासो निरुपाधिकः । तदप्युक्तम्. .. नीलिमेव वियत्येषा भ्रान्त्या ब्रह्मणि संमृतिः ।
घटव्योमेव भोक्ताऽयं भ्रान्तो भेदेन न स्वतः ॥ इति ।... अत एव भाष्यकारः शुक्तिका रजतवदवभासत एकश्चन्द्रः सद्वितीयवदिति 'गिदर्शनद्वय मुदाजहार । शिष्टं शास्त्र एव स्पष्टमिति विस्तरभियोपरम्यते । एवं च दृग्दृश्यों द्वावेव पदार्थाविति वेदान्तिनां सिद्धान्त इति सर्वमवदातम् । __ अत्र प्रभाकरें:-शुक्तिका रजतवदवभासत इति दृष्टान्तो नेष्टः । रजतप्रत्य. यस्य शुक्तिकालम्बनत्वानुपपत्तेः । तथाहि-इदं रजतमिति प्रतीतो शुक्र्तरालम्बनत्वं पुरोदेशसंत्तामात्रेणावलम्ब्यते कारणत्वेन भासमानत्वेन वा । नाऽऽद्यः । पुरोवर्तिनां लोष्टादीनामप्यालम्बनत्वप्रसङ्गात् । अथ कलधौतबोधकारणसंस्का. रोद्बोधकारणत्वेन तद्वारा रजतज्ञानकारणत्वादालम्बनत्वं मन्यसे । तदपि न • संगच्छते । चक्षुरादीनामपि कारणत्वेन विषयत्वापातात् । अथ भासमानतया विषयत्वमिष्यते तदप्यश्लिष्टम् । रजतनिर्भासस्य शुक्तिकालम्बनत्वानुपपत्तेः । यस्मिन्विज्ञाने यदवभासते तत्तदालम्बनम् । अत्र च कलधौतानुभवः शुक्तिका. लम्बनत्वकल्पनायां विरुध्यते । तथा चाचकथन्न्यायवीभ्यां शालिकानाथ:
१ ख. °दिप्रक्र । २ ख. वर्तः स । ३ क.. भितज्ञा । ४ ख. पाध्युप° । ५ ख. रः प्राह-शु। ६ ख. वा। न प्रथमः। पु। ७ ख. 'तबोधिकरणं सं । ८ ख. द्दाररजतजज्ञा। ९ ख. 'नाऽयं नावि।