________________
१५८
सर्वदर्शनसंग्रहे
1
तदपरे न क्षमन्ते । इह खलु निखिलप्रेक्षावान्समीहिततत्साधनयोरन्यतर. प्रवेदने प्रवर्तते । न च रजतमर्थयमानस्य शुक्तिकाशकलज्ञानं तद्रूपमनुभावयितुं प्रभवति । शुक्तिकाशकलस्य समीहिततत्साधनयोरन्यतरभावाभावात् । नापि रजतस्मैरणं पुरोवर्तिनि प्रवृत्तिकारणम् । तस्यानुभवपारतन्त्र्यतयाऽनुभवदेश एव प्रवर्तकत्वात् । नापि भेदाग्रहो व्यवहारकारणम् । ग्रहणनिबन्धनत्वाचेतनव्यवहारस्य । ननु न वयमेकैकस्य कारणत्वं खूमहे येनैवमुपलभ्येमहि । किंत्वगृहीतविवेकस्य ज्ञानद्वयस्य प्राप्तसमीचीनपुरः स्थितरजत ज्ञानसारूप्यस्येत्यनुक्तोपालम्भोऽयमिति चेत्तदप्ययुक्तम् । विकल्पासहत्वात् । तथाहि - समीचीनरजतावभाससारूप्यं भासमानं प्रवर्तकं सत्तामात्रेण वा । आद्ये विकल्प भेदाग्रहापस्पर्यायस्य सांरूप्यस्य समीचीनसंनिभे इमे ज्ञाने इति विशेषाकारेण गृह्यमाणस्य प्रवृत्तिकारणत्वं किंवऽनयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहो विद्यत इति सामान्याकारेण गृह्यमाणस्य सारूप्यस्य । नाऽऽग्रेः । समीचीनज्ञानवत्तसंनिभज्ञानस्य तदुचितव्यवहारप्रवर्तकत्वानुपपत्तेः । न खलु गोसंनिभो गवय इत्यवभासो गवार्थिनं गवये प्रवर्तयति । न द्वितीयः । व्याहतत्वात् । न खल्वनाकलितभेदस्यानयोरित्यनयोरिति ग्रह भेदाग्रह इति च प्रतिपत्तिभवति । अतः परिशेषात्सत्तामात्रेण भेदानहरूपस्य सारूप्यस्य व्यवहारकारणत्वमङ्गीकर्तव्यम् । एवमेवास्त्विति चेत्तदमिह संप्रधार्यम् - किमयं भेदाग्रह समरिपोत्पादनक्रमेण व्यवहारकारणमस्तूतानुत्पादितारोप एवं स्वय मिति । न च द्वितीयः पक्ष एव श्रेयान् । तावतैव व्यवहारोत्पत्तावारोपस्य गौरवदोषदुष्टस्वदिति मन्तव्यम् । विशिष्टव्यवहारस्य विशिष्टज्ञानपूर्वकत्वनिय मेमाङ्गामपूर्वकस्वानुपपत्तेः ।
नम्बयं व्यवहारो नाज्ञानपूर्वक इत्यनाकलितपराभिसंधिः स्वसिद्धान्त सिं दाययदि कश्चिच्छन्त स प्रतिवक्तव्यः । शुक्तिकाविषयस्य ग्रहणस्यासमीहितविषयत्वेन रजतार्थिमवृसिंहेतुत्वा संभवादन्वयव्यतिरेकाभ्यां रजतज्ञानस्यं समीहितविषयत्वेन प्रवृत्तिहेतुत्व सं यवाच्चेदमर्थाभिसंभिन्नग्रहविविक्तस्यापि रजतस्मरणस्य कारणत्वं वक्तव्यम् । तच्च वक्तुं न शक्यते । जानाति इच्छति ततः प्रवर्तत इति न्यायेन ज्ञानेच्छाप्रवृत्तीनां समानविषयत्वेन भाव्यम् | तथा चेदंकारास्पदाभिमुख प्रवृत्तस्य रजतार्थिनस्तदिच्छानिवन्धनम् । अन्यथाऽ
१ ख.॰भवें पा ̊ । २ खः 'हे व्य' । ३ क. ' वा तयों । ४ खं प्रसार्यम् । ५ क. मुख्यर° । ख. ‘मुखर ं ।