________________
शांकरदनम् ।
न्यदिच्छमन्यद्वयवहरतीति व्याहन्येत । तथा च यदीदंकारास्पदं रजतीवभा. सगोचरतां नाऽऽचरेत्कथं रजतार्थी तदिच्छेत् । यद्यरजतत्वाग्रहपादिति ब्रूयाद्रजतत्वाग्रहात्कस्मादयं नोपेक्षेतेति । मुर्गपत्चद्भवभेदाग्रहाभेदाप्रहनिबन्धना. भ्यामुपादानोपेक्षाभ्यां पुरतः पृष्ठतश्चाकृष्यमाणः पुरुषो दोलायमानत्रया रूपया रोपमन्तरेणोपादानपक्ष एव न व्यवस्थाप्यत इत्यनिच्छताऽप्यच्छमतिना समा. रोपः समाश्रयणीयः । यथाऽऽह भेदाग्रहादिदंकारास्पदे रजतत्वमारोप्य बजा. तीयस्योपकारहेतुभारमनुस्मृत्य तज्जातीयत्वेनास्यापि तदनुमाय तदर्थी प्रवर्तत इति प्रथमः पक्षः प्रशस्यः।
न च तठस्थरजतस्मरणपक्षेऽपि हेतोहीतत्वेनायं मार्गः समान इति वाच्यम् । रजतत्वस्य हेतोः पक्षधर्मत्वाभावात् । न च पक्षधर्मताया अभावेऽपि व्याप्तिबलाद्पकत्वं शडून्यम् । व्याप्तिपक्षधर्मतावल्लिङ्गस्यैव गमकवाङ्गीकाराद तदाहुः शबरस्वामिनः-ज्ञातसंबन्धस्यैव पुंसो लिङ्गविशिष्टधम्र्येकदेशदर्शना ल्लिङ्गिविशिष्टधयेकदेशबुद्धिरनुमानमिति । आचार्योऽज्यवोचत्र
सं एष चोभयात्मा यो गम्ये ममक इम्यते । . असिद्धेनैकदेशेन गम्यासिद्धेनं बोधकः ॥ इति । ननु भवत्पक्षेऽपि पुरःस्थितस्येदमर्थस्य परमार्थतो रजतत्वं नास्तीति न रज. तत्वं धर्येकदेश इति चेन्न । यक्षानुरूपो बलिरिति न्यायेनानुमित्याभासानुगुणस्यैकदेशस्य विद्यमानत्वात् । तथा च प्रयोगः-विवादाध्यासितं रजतज्ञानं पुरोवर्तिविषयं रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् । यदुक्तसाधनं तदुक्त साध्यं यथोभयकादिसंमतं सत्यरजतज्ञानम् । विवादपदं शुक्तिशकलं रजतज्ञानविषयोंऽव्यवधानेन रजतार्थिप्रवृत्तिविषयत्वाद्रजतपंदसमानाधिकरणपदान्तरवाच्यत्वाद्वा वस्तुरजतवत् ।
यदुक्तं रजतज्ञानस्य शुक्तिकालम्बनत्वेऽनुभवविरोध इति तदप्ययुक्तम् । विकल्पासहत्वात् । तथाहि-तत्र किं रजताकारप्रतीति प्रति शुक्तेरालम्बनत्वेऽनुभवविरोध उद्भाव्यत इदमंशस्य वा । नाऽऽद्यः । अनङ्गीकारपराहतत्वात् । न द्वितीयः । इदंतानियतदेशाधिकरणस्य चाकचक्यविशिष्टस्य वस्तुनो रजतज्ञानालम्बनत्वमनवलम्बमानस्य भवत एवानुभवाविरोधात् । इदं रजतमिति सामानाधिकरण्येन पुरोवर्तिन्यङ्गुलिनिर्देशपूर्वकमुपादानादिव्यवहारदर्शनाच ।
१ ख. दिच्छेदन्य । २ क.-"ताभा । ३ ख. 'ग्रहणात्क' । ४ ख. गतद्भ। ५ ख. पीयस्तथाहि भे । ६ क. पि धर्महेत्वोः । ख'पि हेत्वाग्रही । ७ ख. शक्यशङ्कम् । व्या । ८ ख. स एव चो । ९ स. पदं स ।