________________
सर्वदर्शनसंग्रहे... यचोक्तं-दोषाणामौत्सर्गिककार्यप्रसवशक्ति प्रतिबन्धकतया विपरीतकारित्वं नास्तीति । तदप्ययुक्तम् । दावदग्धवेत्रवीजादौ तथा दर्शनात् । न च दग्धस्य वेत्रबीजत्वं नास्तीति. मन्तव्यम् । श्यामस्य घटस्य रक्ततामात्रेण घटत्वनिवृत्ति प्रसङ्गात् । ननु घटोऽयं घटोऽयमित्यनुवृत्तयोः प्रत्ययप्रयोगयोः सद्भावाद्घटत्वस्य सद्भाव इति चेन्न । अत्रापीदं वेत्रबीजमिति तयोः समानत्वात् । तथा भस्मकदोषदूषितस्य जाठराग्नेबेन्नपचनसाम दृश्यते । न च बहन्नपचनसामर्थ्य जाठरस्यैव जातवेदसो न भस्मकव्याधेरिति वक्तुं युक्तम् । तस्य मन्दमल्पपचनसामर्थेऽपि सहसा महत्पचनस्य भस्मकन्याधिसाहायकमन्तरेणानु. पपत्तेः । अन्यथा सर्वेषां तथाऽऽपत्तेः। किंच ज्ञानानां यथार्थव्यवहारकारणत्वेऽपि दोषवशादयथार्थव्यवहारकारणत्वमङ्गीकुर्वाणो भवानेव पर्यनुयोज्यो भवति । (तदुक्तं भाष्ये-यश्चोभयोः समानो दोषो द्योतते तत्र कश्चोयो भवतीति । अत्राप्युक्तम्
-यश्चोभयोः समो दोषः परिहारोऽपि वा समः। . .
नैकः पर्यनुयोक्तव्यस्ताहगर्थविचारणे ।। इति । तथाऽपि मामकस्यानुमानस्य किं दूषणं दत्तमासीत् । यद्यनुमानदूषणं विना न परितुष्यत्ति हन्त कालात्ययापदिष्टता । कृष्णवर्मानुष्णत्वानुमानवत् । एतावन्तं .कालं यदिदं रजतमित्यभादसौ शुत्तिापिति प्रत्यक्षेण प्राचीनमत्ययस्यायथार्थत्वं
अवेदयत्ता यथार्थत्वानुमानस्यापहृतविषयत्वाद्वाध्यत्वसंभवात् । .. ... यच्चोक्तं स्वगोचरव्यभिचारे सर्वानाश्वासप्रसङ्ग · इति । तदसांप्रतम् । संविदां कचित्संवादिन्यवहारजनकत्वेऽपि न सर्वत्र तच्छङ्कया प्रवृत्त्युच्छेद इति यथा तावके मते तथा मामकेऽप्यसौ पन्था न वारित इति समानयोगक्षे. मत्वात् । तौतातितमतमवलम्ब्य विधिविवेकं व्याकुर्वाणराचार्यवाचस्पतिमित्रैबर्बोधकत्वेन स्वतः प्रामाण्यं नाव्यभिचारेणेति न्यायकणिकायां प्रत्यपादि । तस्मादविश्वासशङ्काऽनवकाशं लभते । ... . ननु माध्यमिकमतावलम्बनेन रजतादिविभ्रमालम्बनमसदिति चेत्तदुक्तम् । असतोऽपरोक्षप्रतिभासायोग्यत्वात् । तदुवादित्सया प्रवृत्त्यनुपपत्तेश्च । ननु विज्ञानमेवः वासनादिस्वकारणसामासादितदृष्टान्तसिद्धस्वभावविशेषमसत्मकाशनसमर्थनमुपजातम् । असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः। तस्मादविद्यावशादसन्तो भान्तीति चेत्तदपि वक्तुमशक्यम् । शक्यस्य दुर्निरूप्यत्वात् । । १ ख. °था तथाऽऽप । २ क. °नानामज्ञानतो य । ख. नानामज्ञानाद्यथा । ३ ख. 'ष्टक । ४ ख. °सङ्गयति । ५ ख. चित्सन्नादि । ६ ख. दितादृ । ७ ख. भाग्निति ।