________________
शांकरदर्शनम् । किमत्र शक्यं कार्य ज्ञाप्यं वा । नाऽऽद्यः । असतः कार्यत्वानुपपत्तेः । न द्वितीयः। शक्यस्य कारणत्वेनाङ्गीकृतत्वात् । ज्ञानादन्यस्य ज्ञानस्यानुपलब्धेश्च । उपलब्धौ वा तस्यापि ज्ञाप्यत्वेन ज्ञापकान्तरापेक्षायामनवस्थापत्तेश्च । अथैतदोषपरिजिहीर्षया विज्ञानं सदरूपमेवासतः प्रकाशकमिति. कक्षी क्रियत इति चेदत्र देवानांप्रियः प्रष्टव्यः पुनः । असौ सदसतोः संबन्धो निरूप्यनिरूपकभा. वोऽविनाभावो वा । नाऽऽद्यः । असत उपकाराधारवायोगेनानुपकृततया निरूप्यत्वानुपपत्तेः । न चरमः । धूमधूमध्वजयोरिव तदुत्पत्तिलक्षणस्य शिंशपाक्षयोरिव तादात्म्यलक्षणस्य वाऽविनाभावनिदानस्य सदसतोरसंभवात । तस्माद्विज्ञानमेवासत्प्रकाशकमित्यसद्वादिनामयमसत्प्रलाप इत्यारोप्यमाणं नासत् ।
ननु विज्ञानवादिनयानुसारेण प्रतीयमानं रजतं ज्ञानात्मकम् । तत्र च युक्तिरभिधीयते-यद्यथाऽनुभयते तत्तथा । अन्यथात्वं तु बलवद्वाधकोपनिपातादास्थीयत इत्युभयवादिसंमतोऽर्थः । तत्र च नेदं रजतमिति निषिद्धेदभावं रजतमर्यादान्तरज्ञानरूपमवतिष्ठते । न चेदंतया निषेधे सत्यनिदंतया च, बहिरपि व्यवस्थोपपत्तेः कुतः संविदाकारतति वाच्यम् । व्यवाहतस्यापरोक्षत्वानुपपत्तावपरोक्षस्य विज्ञानस्य कक्षीकर्तव्यत्वात् । तथा च प्रयोगः-विवादपदं, ब्रिज्ञा नाकारः संप्रयोगमन्तरेणापरोक्षत्वाद्विज्ञानवादति । तदनुपपन्नम् । विकल्पासहस्वात् । बाधकोऽवबोधः किं साक्षाज्ञानाकारतां बोधयत्याद्वा! नाऽऽद्य नेदं रजतामिति प्रत्ययस्य रजतविवेकमात्रगोचरस्य नानाभेदगोचरतायामनुभवावि. रोधात् । नेदं रजतमिति रजतस्य पुरोवर्तित्वप्रतिषेधो ज्ञानाकारतां कल्पयतीति चेत्तदेतद्वार्तम् । प्रसक्तप्रतिषेधात्मनो बाधकावबोधस्य तत्रैव सत्त्वालतिषेधोपपत्तेः । विज्ञानाकारत्वसाधनमप्यविज्ञानाकारे बहिष्ठे साक्षिप्रत्यक्षे भावरूपाज्ञाने वर्तत इति सव्यभिचारः।
नन्वन्यथाख्यातिवादिमतानुसारेण रजतस्य देशान्तरसत्त्वेन भाव्यम् । . अन्यथा तस्य प्रतिषेधप्रतियोगित्वानुपपत्तेः । न हि कश्चित्प्रेक्षावाशशविषाणं प्रतिषटुं प्रभवति । तदुक्तम्
व्यावयाभाववत्तैव भाविकी हि विशेष्यता। .
अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ (न्या० कु०.३।२) इति । तथा च तस्य देशान्तरसत्वमाश्रयणीयमिति चेत्तदपि न प्रमाणपद्धतिमा । असतः संसर्गस्येव कलधौतस्य निषेधप्रतियोगित्वोपपत्तेः ।
१ क. 'ज्ञानरू' । ख. 'ज्ञानस्वरूप' । २ क.- "तिम ।